This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
७९
 
तत्रोपमानमाह — कालशत्रो: चिरादिप्रत्ययासाधारणकारणस्य
-
 

 
सकलजगवासान्यूनस्य तत्त्वविशेषस्य शत्रुः परिपन्थी तद्विर-
हाल् यः तस्य । अथवा अन्तकस्य भक्तानुग्रहार्थ दमनं कृत-
वतः त्र्यम्बकस्येत्यर्थः । गलं कण्ठम् । कालिमा नीलवर्ण इव
कालकूटकबलतः संभूत इति प्रसिद्धया लभ्यते अतश्च जगदु-
जीवननिमित्ततया कान्तत्वकरणम् । इन्दो: चन्द्रस्य बिम्बं
मण्डलम् अङ्कः कलङ्को यथा । तस्यापि कारुण्यकृतशशत्राणमू-
लत्वात् 'सिंहिकासुतसंत्रस्त: शश: शीतांशुमाश्रितः' इति
'अङ्काधिरोपितमृगश्चन्द्रमाः शशलाञ्छनः' इत्यादिवचनैः,
'मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति' इति शाकुन्तलो-
क्तेश्च । मधुपः भ्रमर इव तरोरित्यर्थान्तरसंक्रमितवाच्येन
बनिना सहृदयसदसि वृक्षत्वव्यपदेशयोग्यस्य पारिजातादे-
रिति द्योत्यते । मञ्जरीं कुसुममल्लिकाम् । कान्तामिति लिङ्ग-
विपरिणामः । तस्यापि बहुलमधुरसपरिमलभरसूचकत्वात् प
ग्भागजनकत्वं तु सर्वत्र स्फुटमेव । श्रीमान् स्वयं निरतिशय-
शोभाविशिष्टः । आहार्यशोभाग्यस्यास्तीत्याह कौस्तुभश्रीप्रतानैः
कौस्तुभस्य श्रीः प्रभा तस्याः प्रतानैः विस्तारैः अविरलमि-
(लतः निरन्तरं घटितः सदा समीपवर्तित्वात् । श्रीवत्सः
उत्तमलक्षणभूतो रोमावर्तविशेषः 'श्रीवत्सेनोरसि श्रीमान्
गमावर्तेन राजते ' इति श्रीहरिवंशोक्तेः । श्रियः कमलायाः
 
-