This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
6
 

 
पततु शिरस्यकाण्डयमदण्ड इवैष भुज: ' इत्यादिप्र-

योगदर्शनात् । अग्रशब्देनात्र करतलमुच्यते । स्थितिक-

र्
तुर्भगवतस्त्रिभुवनपालने प्रधानसाधनत्वात् प्रथमं भुजग्रह-

णम् । ततो जातत्वाद्धि क्षत्रवर्णस्य प्रजापालनेऽधिकारः,

यद्धि यस्य प्रधानसाधकतमं तस्य तत्स्तुतिः प्रीतये इति

भावः । भुजाग्रे, न तु कराग्रे इत्युक्तिः, वक्ष्यमाणोपमाघट-

नार्थम् । कृतवसति, अनुष्ठितनिवासम्; न तु कारितवस-

तीति । अनेन देवतात्मत्वाच्चेतनत्वेन स्वयमेव संनिहितत्व-

मुच्यते, 'हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम्' इत्यादिवच-

नात् । सितम्, धवलम् । ननु तामसाहंकाररूपस्य कथं

सितत्वोक्तिः ? कारणगुणप्रक्रमेण कार्यगुणारम्भ इति न्यायात्
कार्

कार्ष्ण्
यस्यैवोपपत्तेः । 'अजामेकां लोहितशुक्लकृष्णाम्' इति

तमसः कृष्णवर्णत्ववचनात् इति इति चेत्, सत्यम्; त-
त-
थाप्युपासनोपयुक्तत्वेनैव तामसाहंकारत्ववासना अस्योच्यते,

न त्वनुभवतः । स तु धवलत्वमेव दर्शयति; न च अस्य

प्रत्यक्षस्य भ्रान्तित्वम्, बाधाभावात् । कारणप्रक्रमोक्तिस्तु प्रा-

यिकापेक्षा, लोके विरुद्धगुणकार्योक्तिदर्शनात् – श्वेतयोः

पित्रोः नीलवर्णपुत्रसूतिदर्शनात् । शाकाद्याहारपरिणति: तत्त्रो-

पाधिरनुमीयते इति चेत्, अत्रापि ईश्वरेच्छेछैवोपाधिरनुमी-

यताम् इति न कश्चिद्विरोधः । गोमयादेर्वृश्चिकोत्पत्तिरपि
 

 
.