This page has been fully proofread once and needs a second look.

विष्णुपादादि-
नृणाम्' इति, 'निरस्तानुशयाह्लादिसुखभावैकलक्षणा । भेषजं

भगवद्भक्तिरेका त्वात्यन्तकी मता' इति च श्रीविष्णुपुराणव-

चनात् । प्रपद्ये इदमेवास्माकं सर्वस्वं नान्यत् किंचिदिति

बुद्ध्या प्राप्नोमि । अत्र श्लेषोऽलंकारः । समासद्वयाश्रये -

ण विशेषसाम्यप्रतिपादनात् उपमानोपमेययोर्द्वयोरुपादानाच्च

उभयश्लेषश्चायं भङ्गाभङ्गवत्वेन शब्दार्थश्लेयोर्विद्यमान-

त्वात् ॥ २८ ॥
 
७८
 

 
'हृदयं पर्जन्य: ' इति सावित्रीहृदयोक्तरीत्या समस्ताभीष्ट-

वर्षणात् पर्जन्यत्वेन वा 'अव्यक्तमाहुर्हृदयं मनस्तु स चन्द्रमा: '

इति भागवतोक्तरीत्या सकलजगदुपादानत्वात् अव्यक्तरूप-

त्वेन वा भगवतो वक्षःस्थलमुपास्य इदानीं तल्लक्ष्मभूतं श्रीव

त्समुपास्ते-

 
कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो-

रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोर्मञ्जरीं राजते यः ।

श्रीमान्नित्यं विधेयादविरलमिलित: कौस्तुभश्रीप्रतानैः

श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥
 

 
श्रीपतेः वक्षः नितान्तम् अतिशयेन कान्तं शोभमानं

विदधत् कुर्वाण: स्वत एव कान्तत्वात् नितान्तग्रहणम् ।