This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
6
 
मङ्गलदेवताया वासेन सदा संनिधानेन शोभया व्याप्त्या
व शोभितुं शीलं यस्य । फुल्लप्रतिनववनमालाङ्कि फुल्लया
बिकसितया प्रतिनवया नित्यमम्लानत्वात् नूतनया वनमालया
अञ्चित इति भागवतोक्तेः । पुष्पितस्य बालतरुवनस्य मालया
रेखया चिह्नितं च समुदायिनः उपवनस्याप्यवयवत्वेन चम्पक-
बकुलचन्दनादिवीथीविशिष्टत्वात् । राजद्भुजान्तं शोभमानः
बाह्वोरन्तः मूलप्रदेशः यस्मिन् वक्षःसंबन्धित्वात् भुजान्तस्य, रा-
जन्तः भुजाः भूर्जवृक्षा अन्ते समीपे यस्य च । श्रीवृक्षकान्तं
श्रीवत्सेन सुन्दरम् । अश्वत्थैः पिप्पलैर्वा शोभितं च भूजा
भूर्जे ' इति 'श्रीवृक्षः पिप्पलोऽश्वत्थ : ' इति च वैजयन्ती ।
श्रीवृक्षो मालूर श्रीफलावपि ' इत्यमरः । मधुकरनिकरश्या-
मलं भ्रमरमालावन्नीलवर्णम् । भ्रमरैः श्यामलं च । संसारा-
ध्वश्रमार्तैः अनादिसिद्धे संसारमार्गे अनवरतं भ्रमेण खिन्नैः,
आध्यात्मिकादितापत्रयपीडितैरित्यर्थः । अनेन 'अनेकज-
मसाइली संसारपदवीं व्रजन् । मोहश्रमं प्रयातोऽसौ वासना-
रेणुकुण्ठितः' इति श्रीविष्णुपुराणोक्तमनुसंधत्ते । संसारार्थेन
मार्गगमनेन यः श्रमः तेनार्तेश्च । उपवनम् आरामः कृत्रि-
भवनतया छायादिभिः सपदि श्रमशमनापादनात् तद्ब्रहणम् ।
भवितम् आश्रितम्, श्रमहरणायेत्यर्थः, 'एवं संसारदुःखा-
र्गतापतापितचेतसाम् । विमुक्तिपादपच्छायामृते कुत्र सुखं
 
(
 
७७
 
-