This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
वा 'नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहाः इत्युक्त-
रीत्या रोमराजीमुपास्ते -
 
1
 
,
 
नाभीनालीकमूलादधिकपरिमलोन्मोहिताना मलीनां
माला नीलेव यान्ती स्फुरति रुचिमंती वक्रपद्मोन्मुखी या ।
रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो-
श्चित्तस्था मा विरंसीञ्चिरतरमुचितां साधयन्ती श्रियं नः ॥
 

 
नाभीपद्मस्याधोभागात् वक्त्रपझोन्मुखी यान्ती मुखकमलं
लक्ष्यीकृत्य गच्छन्ती । अलीनां भृङ्गाणां । अलिशब्द इका-
रान्तो नकारान्तश्च दृश्यते, 'चूतनालिरलिनामतिरागात् '
इति 'मंक्षूदपाति परितः पटलैरलीनाम्' इति च माघप्रयो-
गात् । नीला माला श्रेणीव याने हेतुः । अधिकपरिमलोन्मो-
हितानां नाभीनलिनपरिमलादधिकेन वक्त्रपद्मपरिमलेन पर-
वशीकृतानामिति । रुचिमती प्रीतिशालिनी । स्फुरति भासते ।
रम्या अन्यूनानतिरिक्ततया स्निग्धनीलबहुलतया च हृदयं-
गमा मध्यभागस्य उदरप्रदेशस्य महितरुचिकरी सहृदयश्ला-
ध्यायाः शोभायाः हेतु: । 'कृञो हेतुताच्छील्यानुलोम्येषु'
इति हेतुत्वे टः । उचितां श्रियं साधयन्ती अधिकारविशेषव-
शात् तत्तयोग्यां बुभुक्षोरुपासकस्य भुक्तिरूपां मुमुक्षोर्मुक्ति-
-