This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
वा 'नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहाः' इत्युक्त-

रीत्या रोमराजीमुपास्ते -
 
1
 
,
 

 
नाभीनालीकमूलादधिकपरिमलोन्मोहिताना मलीनां

माला नीलेव यान्ती स्फुरति रुचिमंती वक्त्रपद्मोन्मुखी या ।

रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो-

श्चित्तस्था मा विरंसीञ्चिरतरमुचितां साधयन्ती श्रियं नः ॥
 

 

 
नाभीपद्मस्याधोभागात् वक्त्रपझोद्मोन्मुखी यान्ती मुखकमलं

लक्ष्यीकृत्य गच्छन्ती । अलीनां भृङ्गाणां । अलिशब्द इका-

रान्तो नकारान्तश्च दृश्यते, 'चूतनालिरलिनामतिरागात् '

इति 'मंक्षूदपाति परितः पटलैरलीनाम्' इति च माघप्रयो-

गात् । नीला माला श्रेणीव याने हेतुः । अधिकपरिमलोन्मो-

हितानां नाभीनलिनपरिमलादधिकेन वक्त्रपद्मपरिमलेन पर-

वशीकृतानामिति । रुचिमती प्रीतिशालिनी । स्फुरति भासते ।

रम्या अन्यूनानतिरिक्ततया स्निग्धनीलबहुलतया च हृदयं-

गमा मध्यभागस्य उदरप्रदेशस्य महितरुचिकरी सहृदयश्ला-
ध्

घ्
यायाः शोभायाः हेतु: । 'कृञो हेतुताच्छील्यानुलोम्येषु'

इति हेतुत्वे टः । उचितां श्रियं साधयन्ती अधिकारविशेषव-

शात् तत्तद्योग्यां बुभुक्षोरुपासकस्य भुक्तिरूपां मुमुक्षोर्मुक्ति-
-