This page has not been fully proofread.

विष्णुपादादि-
क्रीडत्वानद्धहेमोदरनहनमहोबाडबाग्निप्रभाढ्ये
कामं दामोदरीयोदर सलिलनिधौ चित्तमत्स्यश्चिरं नः ॥
 
७४
 
कान्तिः प्रभा तद्रूपस्य जलस्य प्रवाहेण निर्भरे । लस-
दसितवलीभङ्ग भास्वत्तरङ्गे स्फुरन्तो नीलवर्णाश्च ये वली-
भङ्गा रेखाविभागाः वलित्रयमित्यर्थः । त एव भास्वन्तः
शोभमानाः कल्लोला यस्मिन् । गम्भीराकारा निम्नस्वरूपा
नाभ्येव चतुरतर: अतिसुन्दर: महांश्चावर्तः जलभ्रम : तेन
शोभितुं शीलमस्य । उदारे आयामविस्ताराभ्यामनवद्ये ।
उदरनहनम् उदरबन्धनम् 'केयूरोदरबन्धहार' इति मुकुन्द -
मालोक्तेः । तस्य महः तेजः तद्रूपया बाडबाग्निप्रभया
बडबामुखानलज्वालया आढ्ये समृद्धे । काममवधारणे
क्रीडत्वेवेत्यर्थः । दामोदरीयोदरसलिलनिधौ दामोदरो
भगवान् विष्णुः, तत्संबन्धिन्युदररूपे समुद्रे, 'वृद्धाच्छः
इति छ । चित्तमत्स्य: चित्तरूपो मीन:, मत्स्यत्वारोपेणै-
तदाह — यथा जलात् पृथग्भूतो मत्स्यः परां वेदनामनु-
भवति तद्वदिदं चित्तमपि भगवद्विग्रहाद्विनाकृतं यथा संतप्यते
तत्संनियोगे च निर्वृतं भवति तथा तस्मिन् रमतामिति ।
अत्र समस्तवस्तुविषयकं सावयवरूपकमलंकारः ॥ २६ ॥
 
-—
 
--
 
अथान्तरिक्षस्वरूपस्योदरस्य मेघमाला त्वेनोपास्याम्, अथ-
9