This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
७३
 
व्याप्य वर्तमानत्वादाकाशत्वोक्ति: । क्रोडभागे उदरप्रदेशे,

' शय्याधूसरक्रोडरोमराजिषु' इति कादम्बरीप्रयोगात् । अत्र
को

क्रो
डशब्देन मूलप्रकृतिर्भगवत उदरत्वेन उच्यते इति

गम्यते, तस्यामेव जगत्प्रभवप्रवेशोपपत्तेः । 'अहीन्द्रतल्पे

ऽधिशयान एकः कृतक्षणश्चात्मरतावहीनः । योऽन्तःश-

रीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयानः ' इति

'लोकानपीमान्ददृशे स्वदेहे ' इति भागवतोक्तेः । 'विपुलेन

सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये' इति

माघोक्तेः, 'दामोदरो निजोदरगह्वरनिक्षिप्तजगदण्ड : ' इति

वेणीसंहारोक्तेः क्रोडग्रहणम् । अन्त:करणम् अन्तः चक्षुरा-

दिभ्योऽभ्यन्तरसंकल्पविकल्पात्मकत्वाच्च करणमिन्द्रियं मन

इत्यर्थ: । अतिमुदा अतिशयितेन हर्षेण भक्तिरसामृतास्वादा-

च्
चिरतरं क्रीडतात् । निर्विघ्नतया निरन्तरं विहरतु 'क्रीडू
डृ
विहारे ' इति धातुः 'तुह्योस्तातङाशिष्यन्यतरस्याम्' इति

आशिषि लोट् । अत्र सूक्ष्मं स्वभावोक्तिर्वा अलंकारः ॥
 

 
पूर्व सात्त्विक रूपेणोपास्य इदानीं विग्रहावयवत्वेन उदर-
भै

मे
वोपास्ते -
 

 
कान्त्यम्भः पूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे

गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे ।