This page has been fully proofread once and needs a second look.

विष्णुपादादि-
इत्याचार्यवचनात् । अन्तः अभ्यन्तरे प्रविशति तिरोभवति,

' एवं सप्त महाबुद्धे क्रमात् प्रकृतयः स्मृताः । प्रत्याहारेण

ताः सर्वाः प्रविशन्ति परस्परम्' इति पुराणवचनात् । चका-

रः सर्गसंहारयोरैकाधिकरण्यं द्योतयति । कदल्या: कदाचित्

स्वजाते: कदाचित् वेत्रमूलात् उत्पत्तेः । घटस्य कदाचित्

कपालेषु कदाचित् चूर्णेषु च नाशस्य दर्शनात् तथा नेत्यर्थः,

'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति ।

यत्प्रयन्त्यभिसंविशन्ति ' इत्यादिश्रुतिभ्यः । सकलं सर्वमेव ।

स्थावरं स्थितिः गतिनिवृत्तिः तच्छीलम् 'स्थेशभासपिसकसो-

वरच्' जङ्गमं भूयो गमनशीलम् । विश्वमिति विशेष्यनिर्देशः ।

'यस्माद्विश्वमुदेति' इत्यादिदर्शनात् । अत्यन्ताचिन्त्यमूर्तेः

सदसद्भिन्नाभिन्ननित्यानित्यादिरूपेण केनचिदपि प्रकारेणाचि-

न्त्या निर्वक्तुमशक्या मूर्तिः मायाख्योपाधिर्यस्य । ' कार्योपा-

धिरयं जीवः कारणोपाधिरीश्वरः' इत्याचार्यवचनात् । अथवा

भक्तानुग्रहमन्तरेण यत्परिग्रहस्य कारणान्तरं निरूपयितुं न शक्यं

सा मूर्ति: विग्रहो यस्येत्यर्थः, 'नाकारणात् कारणाद्वा कारणा-

कारणान्न च । शरीरग्रहणं व्यापि धर्मत्राणाय केवलम्' इति वच-

नात् । अन्तरिक्षस्वरूपे आकाशात्मनि 'आकाशमुदरं नाभिर-

श्मिः' इति सावित्रीहृदये । 'आवपनमाकाशः आकाशे हि
सर्वे

सर्वं
समाप्यते' इत्यैतरेयोपनिषदि च आम्नानात् कार्यजातं
 
७२