This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
अत्यन्ताचिन्त्यमूर्तेश्विरतरमजितस्यान्तरिक्षस्वरूपे
तस्मिन्नस्माकमन्तःकरणमतिमुदा
 
क्रीडतात्क्रोडभागे ॥
 
वै
 
कल्पस्य चतुर्युग सहस्रात्मकस्य ब्रह्मादिनस्य आदौ प्रार.
म्भकाले प्राकृतप्रलयावसानकाले इत्यर्थः । यस्मात् प्रभवति
प्रादुर्भवति न तु येन क्रियत इति । अनेन 'निमित्तमात्र-
मेवासौ सृज्यानां स्वस्वकर्मणि । प्रधानकारणीभूतो
सृज्यशक्तयः' इति 'यथर्तुष्वङ्ग लिङ्गानि नानारूपाणि पर्यये ।
वर्तन्ते तानि तान्येव तथा भावा युगादिषु' इत्यादिवचनैः
समर्थितं ब्रह्मणो निमित्तत्वमात्रं स्वत एव उत्पत्तिं च प्रकाश-
यति । महदादितत्त्वात्मना विवर्तते इत्यर्थ: । विकल्पै: विवि-
भाभिर्द्रव्यगुणकर्मादिकल्पनाभि: विततं व्याप्तं विश्वं जगत् ।
एतदित्यभिनयेन दृश्यत्वान्मिथ्यात्वं सूचयति, 'ततः प्रबुद्धो
गव्यन्ते पुनः सृष्टिं करोत्यज: ' इति वचनात् । कल्पान्ते परसं-
शस्य ब्रह्मायुषः ब्रह्मदिनस्यावसानकाले इत्यर्थः । अतश्च प्राकृत-
मलयोऽत्र कल्पान्तशब्देनाभिधीयते । न तु नैमित्तिकः सकलं
स्थावरं जङ्गमं चेत्यविशेषेण प्रतिपादनात् । कल्पान्तग्रहणेन
मध्यकालेऽस्थितमित्यर्थः सामर्थ्याल्लभ्यते, आद्यन्तयोरभावप्र-
तिपादनात् । शुक्तिरूप्यस्येव मध्यकालेऽप्यज्ञानाप्रतिभातत्वं च
काश्यते, 'आदावन्तेऽपि यन्नास्ति वर्तमानेऽपि तत्तथा '
 
७१