This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
अत्यन्ताचिन्त्यमूर्तेश्विचिरतरमजितस्यान्तरिक्षस्वरूपे

तस्मिन्नस्माकमन्तःकरणमतिमुदा
 
क्रीडतात्क्रोडभागे ॥
 
वै
 

 
कल्पस्य चतुर्युग सहस्रात्मकस्य ब्रह्मादिनस्य आदौ प्रार.
-
म्भकाले प्राकृतप्रलयावसानकाले इत्यर्थः । यस्मात् प्रभवति

प्रादुर्भवति न तु येन क्रियत इति । अनेन 'निमित्तमात्र-

मेवासौ सृज्यानां स्वस्वकर्मणि । प्रधानकारणीभूतो
........वै
सृज्यशक्तयः' इति 'यथर्तुष्वङ्ग लिङ्गानि नानारूपाणि पर्यये ।

वर्तन्ते तानि तान्येव तथा भावा युगादिषु' इत्यादिवचनैः

समर्थितं ब्रह्मणो निमित्तत्वमात्रं स्वत एव उत्पत्तिं च प्रकाश-

यति । महदादितत्त्वात्मना विवर्तते इत्यर्थ: । विकल्पै: विवि-
भा

धा
भिर्द्रव्यगुणकर्मादिकल्पनाभि: विततं व्याप्तं विश्वं जगत् ।

एतदित्यभिनयेन दृश्यत्वान्मिथ्यात्वं सूचयति, 'ततः प्रबुद्धो
गव्

रात्र्
यन्ते पुनः सृष्टिं करोत्यज: ' इति वचनात् । कल्पान्ते परसं-

शस्य ब्रह्मायुषः ब्रह्मदिनस्यावसानकाले इत्यर्थः । अतश्च प्राकृत-

प्र
लयोऽत्र कल्पान्तशब्देनाभिधीयते । न तु नैमित्तिकः सकलं

स्थावरं जङ्गमं चेत्यविशेषेण प्रतिपादनात् । कल्पान्तग्रहणेन

मध्यकालेऽस्थितमित्यर्थः सामर्थ्याल्लभ्यते, आद्यन्तयोरभावप्र-

तिपादनात् । शुक्तिरूप्यस्येव मध्यकालेऽप्यज्ञानाप्रतिभातत्वं च

प्र
काश्यते, 'आदावन्तेऽपि यन्नास्ति वर्तमानेऽपि तत्तथा '
 
७१