This page has not been fully proofread.

विष्णुपादादि-
त्यते । भूमयं पञ्चाशत्कोटिविस्तीर्णधरणीमण्डलात्मकं नालकिं
पद्मं नाभिपद्माकरभवं नाभिरूपे पद्मसरसि जातम्,
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभि-
हृदाम्बुजादासीत् ब्रह्मा विश्वसृजां पतिः । यस्यावयवसं-
स्थानैः कल्पितो लोकविस्तर: ' इति श्रीभागवतोक्तेः ।
यस्यावयवेति नाभिहदाम्बुजस्य परामर्श: ।' यदम्बु
ष्णवः कायस्ततो विप्र वसुंधरा । पद्माकारा समुत्पन्ना
पर्वताब्ध्यादिसंयुता' इति श्रीविष्णुपुराणवचनाच्च । उरु
विस्तीर्ण नागशय्यस्थ नागः अनन्तः शय्या शयनं य-
स्य । शौरे: शूरनाम्नो यदुराजस्थापत्यभूतस्य । नाग-
शय्यस्य शौरेरित्यनयोक्त्या भगवान्नारायण एव साक्षा-
त्कृष्णरूपेण प्रादुर्भूतः । न तु कर्मपरतन्त्रतया देवक्यां
जात इति सूचयति । 'परब्रह्म नराकृति गूढं परं ब्रह्म मनु-
व्यलिङ्गं कृष्णस्तु भगवान् स्वयम्' इत्यादिवचनैः । का-
मान् इष्टान् पुरुषार्थान् ददातीति कामदं भूयादित्याशी-
र्लिङ् । अत्र समस्तवस्तुविषयसावयवरूपकमलंकारः ॥ २४ ॥
 
य-
6
 
अथावयवयोर्नाभिनलिनयोरवाचीनं क्रोडभागमुपास्ते-
आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः
कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च ।