This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 

 
-
 
रावलिः पङ्क्तिश्रेणीलेखास्तु राजयः' इत्यमरः । 'शीतान्तश्च
कुमुद्रांध कुररी माल्यवांस्तथा । वैकङ्कप्रमुखा मेरो: पूर्वतः
केसराचला: । त्रिकूट: शिखरश्चैव पतङ्गो रुचकस्तथा ।
निषधादयो दक्षिणतस्तस्य के सरपर्वताः । शिखिवासाः सवैडूर्यः
कपिलो गन्धमादनः । जारुधीप्रमुखास्तद्वत् पश्चिमे केसरा-
चलाः । शङ्खकुटोऽथ ऋषभो हंसो नागस्तथापर । काला-
बनाद्याश्च तथा उत्तरे केसराचला: ' इति वचनात् । वि
पुलां विस्तीर्णो लक्षयोजनोन्नतत्वात् द्वात्रिंशद्योजनविस्तीर्ण-
शिखरत्वाच्च । कर्णिकां बीजकोशं स्वर्णशैलं कनकपर्वतं सुमे-
रुम्, भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थित : ' इति वच-
नात् । इह जगत्रये विद्वांसः दिव्येन चक्षुषा प्रत्यक्षीकृतभग-
बत्तत्त्वाः पराशरपाराशर्यादयः । विदुः जानन्ति । गायत्स्वयंभू-
मधुकरभवनं प्रशंसासामानि गायतो गीत्या प्रयुञ्जानस्य झङ्का-
रमुखस्य च स्वयंभूः ब्रह्मा तद्रूपस्य मधुकरस्य भृङ्गस्य
भासभूतं कमलजमधुपस्यास्पदमित्यनन्तरोक्तेऽपि पुनस्तद्भव
•नत्वोक्तिः पूर्वमकथितस्य भगवत्प्रसादनाय प्रयुज्यमानस्य
तत्कार्यस्य प्रकाशनार्थेति मन्तव्यम्, 'नाभिप्ररूढाम्बुरुहासनेन
संस्तूयमानः प्रथमेन धात्रा' इत्यादिवचनात् । स्वयंभूशब्देन
भगवत एव रजोगुणावलम्बनेन जगत्सर्गाय स्वयमेव स्रष्ट-
●. पेण विवृत्तत्वं कमलजत्वोक्तिस्त्वौपचारिकीति च द्यो-
६९