This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 

 
-
 
रावलिः पङ्क्तिश्रेणीलेखास्तु राजयः' इत्यमरः । 'शीतान्तश्च

कुमुद्रांधवांश्च कुररी माल्यवांस्तथा । वैकङ्कप्रमुखा मेरो: पूर्वतः

केसराचला: । त्रिकूट: शिखरश्चैव पतङ्गो रुचकस्तथा ।

निषधादयो दक्षिणतस्तस्य के सरपर्वताः । शिखिवासाः सवैडूर्यः

कपिलो गन्धमादनः । जारुधीप्रमुखास्तद्वत् पश्चिमे केसरा-

चलाः । शङ्खकुकूटोऽथ ऋषभो हंसो नागस्तथापर: । काला-

ञ्ज
नाद्याश्च तथा उत्तरे केसराचला: ' इति वचनात् । वि
-
पुलां विस्तीर्णोणां लक्षयोजनोन्नतत्वात् द्वात्रिंशद्योजनविस्तीर्ण-

शिखरत्वाच्च । कर्णिकां बीजकोशं स्वर्णशैलं कनकपर्वतं सुमे-

रुम्, भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थित : ' इति वच-

नात् । इह जगत्त्रये विद्वांसः दिव्येन चक्षुषा प्रत्यक्षीकृतभग-

त्तत्त्वाः पराशरपाराशर्यादयः । विदुः जानन्ति । गायत्स्वयंभू-

मधुकरभवनं प्रशंसासामानि गायतो गीत्या प्रयुञ्जानस्य झङ्का-

रमुखस्य च स्वयंभूः ब्रह्मा तद्रूपस्य मधुकरस्य भृङ्गस्य
भा

वा
सभूतं कमलजमधुपस्यास्पदमित्यनन्तरोक्तेऽपि पुनस्तद्भव
-
नत्वोक्तिः पूर्वमकथितस्य भगवत्प्रसादनाय प्रयुज्यमानस्य

तत्कार्यस्य प्रकाशनार्थेति मन्तव्यम्, 'नाभिप्ररूढाम्बुरुहासनेन

संस्तूयमानः प्रथमेन धात्रा' इत्यादिवचनात् । स्वयंभूशब्देन

भगवत एव रजोगुणावलम्बनेन जगत्सर्गाय स्वयमेव स्रष्ट-
●.
टृ-
रू
पेण विवृत्तत्वं कमलजत्वोक्तिस्त्वौपचारिकीति च द्यो-
६९