This page has been fully proofread once and needs a second look.

६ विष्णुपादादि-

मङ्गलोपक्रमाणि मङ्गलमध्यानि मङ्गलान्तानि च काव्यादीनि
कर्तुः श्रोत्रादीनां चैहिकामुष्मिकप्रसाधकानि च भवन्ति इति
द्योतयितुं मङ्गलदेवताया: कमलवासिन्याः प्रधाननाम्ना लक्ष्मी-
शब्देनोपक्रममाणः तत्प्राणेश्वरस्य मुकुन्दस्य भुक्तिमुक्तिप्रदत्वं
भक्तेभ्यः प्रकाशयति कविः । लक्ष्म्याः भर्ता ; 'डुभृञ्
धारणपोषणयो: ' इति धात्वर्थश्रवणात् सदा तदधिदेवतारू-
पामुरसा धारयति, भक्तेषु धनधान्यादिरूपेण ज्ञानरूपेण च
पोषयति च यः तस्येत्यर्थः । विशेषणमात्रप्रयोगो विशेष्य-
प्रतिपत्ताविति लक्षणात् लक्ष्मीभर्तुरित्युक्त्यैव विशेष्यस्य
विष्णोरञ्जसा प्रतीतेरनुपचरितस्य च लक्ष्मीधारणस्य भगवत्येव
संभवात् विशेषणमेव प्रयुक्तमित्यवगन्तव्यम् । भर्तुरिति योग-
रूढ्या पाणिग्राहकत्वं प्रतिपादयन् पतिव्रतायास्तस्याः तद्भ्रूक्षे-
पवशवर्तित्वं च द्योतयति । लक्ष्मीभर्तुः न तु लक्ष्म्या भर्तु-
रिति - समासे गुणीभावेन तस्याः प्रतिपादनादप्ययमर्थो
व्यज्यते । 'भुजाग्रे बाहुशिखरे बाहा बाहुर्भुजा' इति
स्कन्धादध: कूर्परादूर्ध्वं च यः प्रदेशः तस्य भुजसंज्ञा
यद्यप्यभिधानशास्त्रे पठिता, तथाप्यत्र स्कन्धादिः करान्तः
समुदाय उच्यते । 'तदेतदाजानुविलम्बिना ते ज्याघातरेखा
स्थिरलाञ्छनेन । भुजेन रक्षापरिघेण भूमे: ' इति, 'अस्पृ-
ष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः' इति,
 
,