This page has not been fully proofread.

विष्णुपादादि-

 
मङ्गलोपक्रमाणि मङ्गलमध्यानि मङ्गलान्तानि च काव्यादीनि

कर्तुः श्रोत्रादीनां चैहिकामुष्मिकप्रसाधकानि च भवन्ति इति

द्
योतयितुं मङ्गलदेवताया: कमलवासिन्याः प्रधाननाम्ना लक्ष्मी-

शब्देने।नोपक्रममाणः तत्प्राणेश्वरस्य मुकुन्दस्य भुक्तिमुक्तिप्रदत्वं

भक्तेभ्यः प्रकाशयति कविः । लक्ष्म्याः भर्ता ; 'डुभृञ्

धारणपोषणयो: ' इति धात्वर्थश्रवणात् सदा तदधिदेवतारू-
-

पामुरसा धारयति, भक्तेषु धनधान्यादिरूपेण ज्ञानरूपेण च

पोषयति च यः तस्येत्यर्थः । विशेषणमात्र प्रयोगो विशेष्य-

प्रतिपत्ताविति लक्षणात् लक्ष्मी भर्तुरित्युक्त्यैव विशेष्यस्य

विष्णोरञ्जसा प्रतीतेरनुपचरितस्य च लक्ष्मीधारणस्य भगवत्येव

संभवात् विशेषणमेव प्रयुक्तमित्यवगन्तव्यम् । भर्तुरिति योग-

रूढ्या पाणिग्राहकत्वं प्रतिपादयन् पतिव्रतायास्तस्याः तद्भूभ्रूक्षे
-
पवशवर्तित्वं च द्योतयति । लक्ष्मीभर्तुः न तु लक्ष्म्या भर्तु-

रिति - समासे गुणीभावेन तस्याः प्रतिपादनादप्ययमर्थो

व्यज्यते । 'भुजाम्ग्रे बाहुशिखरे बाहा बाहुर्भुजा' इति

स्कन्धादध: कूर्परादूर्ध्वं यः प्रदेशः तस्य भुजसंज्ञा

यद्यप्यभिधानशास्त्रे पठिता, तथाप्यत्र स्कन्धादिः करान्तः

समुदाय उच्यते । 'तदेतदाजानुविलम्चिबिना ते ज्याघातरेखा

स्थिरलाञ्छनेन । भुजेन रक्षापरिघेण भूमे: ' इति, 'अस्पृ-

ष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः' इति,
 

 
,