This page has not been fully proofread.

६८
 
विष्णुपादादि-
अथ प्रसङ्गात्पुण्डरीकरूपं नाभिकमलमुपास्ते -
 
पातालं यस्य नालं वलयमपि दिशां पत्रपङ्कीर्नगेन्द्रा-
न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।
भूमयं कामदं नो
तन्नागशय्यस्य शौरेः ॥
 
भूयाद्गायत्स्वयंभूमधुकरभवनं
नालीकं नाभिपद्माकरभवमुरु
 
6
 
पातालमिति अधोवर्तिनाम् अतलादीनां पातालान्तानां
सप्तानां लोकानामुपलक्षणम् । अतलं वितलं चैव नितलं च
गभस्तिमत् । महच्च सुतलं चान्यत्पातालं चैव सप्तमम्' इति
श्रीविष्णुपुराणवचनात् । यस्य नालीकस्य नालं दण्डम् अ-
धोवर्तित्वात् तद्गतानन्ताधारत्वाच्च नालत्वारोपः । दिशां
पूर्वादीनां वलयं कर्णिकां परितः स्थितं वर्तुलत्वेन प्रतिभास-
मानं संस्थानं प्रतिबद्धमध्यमिव दिग्वलयमिति माघोक्त-
वत् दिक्शब्देनात्र दिग्वर्तिनो देशा उच्यन्ते । पत्रपङ्कीः
दलावलीः । 'भारताः केतुमालाश्च भद्राश्वाः कुरव
स्तथा । पत्त्राणि लोकपद्मस्य मर्यादालोकबाह्यतः ' इति
वचनात् भारतभद्राश्वकेतुमालकुरुसंज्ञानि क्रमात् पूर्वदक्षि-
पश्चिमोत्तरवर्तीनि चत्वारि वर्षाणि पत्रत्वेन रूप्यन्ते । नगे-
न्द्रान् पर्वतश्रेष्ठान् केसराली: किञ्जल्कश्रेणी: 'वीथ्यालि