This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
तिप्रसिद्धि प्रकाशयति । तां च अनन्तर श्लोके दर्शयिष्यामः ।
पयोजम् पद्मं यत्रोदभूत् यस्मिन्नुत्पन्नम् । नीलाश्मनीलै:
इन्द्रनीलरत्नवत् नीलवर्णैः । तरलरुचिजलै : चञ्चलैरुपर्युपरि
प्रवणताच्छील्यात् स्वभावरूपैः सलिलैः । जलस्य 'यच्छुक्लं
तदपाम्' इति श्रुतेः शुक्लवर्णस्वभावेऽपि कालिन्द्यादि-
जलवत् नैल्योक्तावपि नानुपपत्तिः । अपह्नुतनिम्नभावे नाली-
काक्षस्य नालीकं पद्ममिव अरुणायतविमलशीतमक्षि यस्य ।
नाभीसरसि नाभिरूपे तटाके चित्तहंसः 'मनस्तु संकल्पवि-
कल्पकारि बुद्धिस्तु संकल्पितनिश्चयात्मा । अहंकृतिर्नाम
स योऽभिमानश्चित्तं तु तद्यन्त्रयमप्यवैति' इत्याचार्यवच-
नात् चित्तशब्देनात्र मूलान्तःकरणमुच्यते । तद्रूपो हंस:
सदसद्विवेचनशीलत्वात् । केलिबुद्धया लीलेयमित्यभिप्रायेण
न तु यन्त्रण येत्यर्थः । अनेन च 'या प्रीतिरविवे-
कानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृद-
'न्मापसर्पतु' इत्युक्तरीत्या भोग्यविषयविरक्त्या साति
यभक्तिरसप्रार्थनां द्योतयति । चिराय वसतु सदा तिष्ठतु !
अनया च उक्तिभङ्गया धारणासिद्धिं प्रार्थयते । 'गच्छत-
६७
 
तोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा
तात्सिद्धान्मन्येत तांस्तदा ' इति श्रीविष्णुपुराणवचनात् ।
॥ समस्त वस्तुविषयं सावयवरूपकमलंकार: ॥ २३ ॥