This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
तिप्रसिद्धिधिं प्रकाशयति । तां च अनन्तर श्लोके दर्शयिष्यामः ।

पयोजम् पद्मं यत्रोदभूत् यस्मिन्नुत्पन्नम् । नीलाश्मनीलै:

इन्द्रनीलरत्नवत् नीलवर्णैः । तरलरुचिजलै : चञ्चलैरुपर्युपरि

प्रवणताच्छील्यात् स्वभावरूपैः सलिलैः । जलस्य 'यच्छुक्लं

तदपाम्' इति श्रुतेः शुक्लवर्णस्वभावेऽपि कालिन्द्यादि-

जलवत् नैल्योक्तावपि नानुपपत्तिः । अपह्नुतनिम्नभावे नाली-

काक्षस्य नालीकं पद्ममिव अरुणायतविमलशीतमक्षि यस्य ।

नाभीसरसि नाभिरूपे तटाके चित्तहंसः 'मनस्तु संकल्पवि-

कल्पकारि बुद्धिस्तु संकल्पितनिश्चयात्मा । अहंकृतिर्नाम

स योऽभिमानश्चित्तं तु तद्यन्त्त्रयमप्यवैति' इत्याचार्यवच-

नात् चित्तशब्देनात्र मूलान्तःकरणमुच्यते । तद्रूपो हंस:

सदसद्विवेचनशीलत्वात् । केलिबुद्ध्या लीलेयमित्यभिप्रायेण

न तु यन्त्रण येत्यर्थः । अनेन च 'या प्रीतिरविवे-

कानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृद-
'

'या
न्मापसर्पतु' इत्युक्तरीत्या भोग्यविषयविरक्त्या साति
-
यभक्तिरसप्रार्थनां द्योतयति । चिराय वसतु सदा तिष्ठतु !

अनया च उक्तिभङ्ग्या धारणासिद्धिं प्रार्थयते । 'गच्छत-
६७
 

स्तिष्ठन्
तोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा

चित्
तात्सिद्धान्मन्येत तांस्तदा ' इति श्रीविष्णुपुराणवचनात् ।

॥ समस्त वस्तुविषयं सावयवरूपकमलंकार: ॥ २३ ॥