This page has not been fully proofread.

विष्णुपादादि-
अथ 'नभःस्थलं नाभिसरो गृणन्ति' इत्युक्तं भगवतो
नाभिदेशमुपास्ते-
उन्ननं कम्रमुञ्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः
पूर्व गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।
यस्मिन्नीलाइमनीलैस्तरलरुचिजलैः पूरिते केलिबुद्धया
नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥
 
उन्नम्रम् उत्तुङ्गस्वभावम् । कम्रमुच्चैः अतिशयेन सुन्दरं
पद्मान्तरेषु तादृशशोभाभावात् । उपचितं समन्तात् परिवृतं
समृद्धं वा । पत्रैः दलैः । विचित्रै : नानारूपैः सप्तद्वीपनवखण्डा-
दिभेदविशिष्टत्वात् । पूर्वम् आदौ भवम् गीर्वाणपूज्यं देवैरर्चनी -
यम् । तत्र हेतुः कमलजमधुपस्य ब्रह्मरूपस्य भ्रमरस्य भगव-
त्स्वरूपानुभवरूपपरमरसास्वादनशीलस्य च । विष्णोः पदे परे ।
आस्पदम् आधारभूतम् । कमलजेत्याद्यास्पदमिति तत एव
जातत्वं तदाधारत्वं च आह । अत एव सकलजगत्स्रष्टुरुत्पत्ति
स्थानत्वात् गीर्वाणानामपि पूज्यमिति भावः । पयोजत्वान्मधु-
परूपणं तत्र स्थितो ब्रह्मा भगवदनुभवानन्दरूपमकरन्द मास्वा-
दयतीति द्योतयितुं मधुपेत्युक्ति: । 'विष्णोः पदे परमे मध्व
उत्स: ' इति श्रुतेः । आतोऽनुपसर्गे कः । तदभिश्रुतिमूलस्मृ
 
-