This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
सनद्धः सम्यक् बद्ध:
 
9
 
मध्य: मेखलाप्रदेशो यस्य । मन्दरो

था, यथेववाशब्दाः उपमाद्योतकाः । उपमानेनोत्तुङ्गत्ववि-

पुलत्वस्थिरत्वादयो भगवदङ्गस्य प्रकाश्यन्ते, सार्धद्वयलक्ष-

प्रमाणत्वेन भगवन्मूर्ते: पुराणेषु प्रतिपादनात् । काञ्ची,
6

'
स्त्रीकट्यां सप्तकी काञ्ची पुंस्कट्यां शृङ्खला त्रयी' इत्यभि-

धानेऽपि काञ्चीशब्देनोक्तिरुपचारात्, पीतांशुके पृथुनि-

तम्बर्माधि स्फुरन्त्या काञ्च्यालिभिर्विरुतया वनमालया च '

इति पुराणवचनाच्च । काञ्चनाभा मध्ये मध्ये गुलिकाकारेण

संनिविष्टजाम्बूनदस्य प्रभया । महार्घाणां रत्नानां च प्रोतानां

रश्मिभिः शाबल्येन प्रकर्षादुज्ज्वलद्भिः, अनेन कनकवर्णत्वात्

फणामणिघृणिपटलभासुरत्वाच्च वासुकिभोगस्य साम्यसाम्राज्यं

प्रतिपाद्यते । उल्लसद्भिः, ऊर्ध्वं प्रसरद्भिः । कल्याणदात्री

स्मरणादिभिरभ्युदयनिः श्रेयससाधिका । कम्ररूपा विविध-

शिल्पकल्पनात् शोभनसंनिवेशा । मम मर्तितिं बुद्धिम् । अनिशं


सर्वदा । कल्यां संशयविपर्ययनिरसनेन भगवत्स्वरूपतत्त्वज्ञाने

दक्षां करोतु, 'सर्वेषामेव लाभानां प्रज्ञालाभः परः स्मृतः '

इति, 'न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं यं रक्षितु-
। म

मि
च्छन्ति बुद्ध्या संयोजयन्ति तम्' इति च महाभारतोक्तेः ।
खि

बुद्धि
लाभस्य सर्वलाभेभ्यो विशिष्टत्वात् तस्य च भगवत्प्रसाद-

न्यत्वादिति भावः । प्रार्थने लोट् । दृष्टान्तोऽत्रालंकारः ॥
 
5
 
-