This page has not been fully proofread.

विष्णुपादादि-
9
 
इत्यादिवचनैः । 'स्त्रीनपुंसकलिङ्गयोदृश्यत्वे दामन् सी-
मन् प्रभृतयः ' इति स्त्रियां गणितत्वात् । 'दामानि सन्तु
भुवनेषु पर: सहस्रम्' 'दामनि भुवनवनतां प्रपन्ने इ-
त्यादिप्रयोगात् । त्रिधाम्नः त्रीणि धामानि यस्य जागर-
स्वप्नसुषुप्त्याख्यानि तत्साक्षित्वात् । 'स्वप्नजागरिते सुसिं
भावाभावौ धियां तथा । यो वेत्त्यविक्रिय: साक्षात् सोऽहमित्य-
वधारय' इत्याचार्यवचनात् ; ऋग्यजु:सामाख्यानि वा
'सर्वे वेदा यत्पदमामनन्ति' इति श्रुतेः सूक्ष्मवेद्यत्वात् ।
भूर्भुव: स्वराख्यानि त्रिलोकीव्याप्तत्वात् । अथवा त्रीणि
धामानि तेजांसि यस्येत्यर्थः । रविशशिदहनाख्यानि ' यदा-
दित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ
तत्तेजो विद्धि मामकम्' इति भगवद्वचनात् । तस्य विष्णोः
जघनकलितया जघनशब्देन सर्वमेव कटितटं लक्ष्यते तस्मिन्
बद्धया तत्परिवेष्टितयेत्यर्थः । अथवा जघने कटीपुरोभागे कृत-
ग्रन्थिबद्धया । भ्राजते दीप्यते । अङ्गं सर्वा मूर्तिः । अब्धेर्म-
ध्यस्थः क्षीरसागरान्तर्वर्ती तन्मथनारम्भे इत्यर्थात् । एतच्च वि-
शेषणं भुजगपतिबद्धमध्यत्वे हेतुत्वेनोपात्तम्, अन्यथा तद्वन्धा-
भावादुपमानत्वानुपपत्तेः । भुजगपतिमहाभोगसंनद्धमध्यः, स-
र्पराजस्य वासुके: महता पूर्वस्मात् सविशेषं गुरुणा, देवकार्याथ
तदानीं भगवच्छक्त्याप्यायितत्वात्, भोगेन शरीरेण नेत्रीभूतेन
 
६४