This page has been fully proofread once and needs a second look.

विष्णुपादादि-
9
 
इत्यादिवचनैः । ' स्त्रीनपुंसकलिङ्गयोर्दृश्यत्वे दामन् सी-

मन् प्रभृतयः ' इति स्त्रियां गणितत्वात् । 'दामानि सन्तु

भुवनेषु पर: सहस्रम्' 'दामनि भुवनवनतां प्रपन्ने' इ-

त्यादिप्रयोगात् । त्रिधाम्नः त्रीणि धामानि यस्य जागर-

स्वप्नसुषुप्त्याख्यानि तत्साक्षित्वात् । 'स्वप्नजागरिते सुसिं
प्तिं
भावाभावौ धियां तथा । यो वेत्त्यविक्रिय: साक्षात् सोऽहमित्य-

वधारय' इत्याचार्यवचनात् ; ऋग्यजु:सामाख्यानि वा

'सर्वे वेदा यत्पदमामनन्ति' इति श्रुतेः सूक्ष्मवेद्यत्वात् ।

भूर्भुव: स्वराख्यानि त्रिलोकीव्याप्तत्वात् । अथवा त्रीणि

धामानि तेजांसि यस्येत्यर्थः । रविशशिदहनाख्यानि ' यदा-

दित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ

तत्तेजो विद्धि मामकम्' इति भगवद्वचनात् । तस्य विष्णोः

जघनकलितया जघनशब्देन सर्वमेव कटितटं लक्ष्यते तस्मिन्

बद्धया तत्परिवेष्टितयेत्यर्थः । अथवा जघने कटीपुरोभागे कृत-

ग्रन्थिबद्धया । भ्राजते दीप्यते । अङ्गं सर्वा मूर्तिः । अब्धेर्म-

ध्यस्थः क्षीरसागरान्तर्वर्ती तन्मथनारम्भे इत्यर्थात् । एतच्च वि-

शेषणं भुजगपतिबद्धमध्यत्वे हेतुत्वेनोपात्तम्, अन्यथा तद्वन्धा-

भावादुपमानत्वानुपपत्तेः । भुजगपतिमहाभोगसंनद्धमध्यः, स-

र्पराजस्य वासुके: महता पूर्वस्मात् सविशेषं गुरुणा, देवकार्या
र्थं
तदानीं भगवच्छक्त्याप्यायितत्वात्, भोगेन शरीरेण नेत्रीभूतेन
 
६४