This page has not been fully proofread.

केशान्तस्तोत्रम ।
 
षोत्तमे' इत्यादिस्मृतिपुराणादिवचनैः । पीताम्बरस्य पीतं
कबलीकृतमम्बरमाकाशं येन, आत्मन आकाशः संभूतः '
इति श्रुतेः । कारणेन कार्यस्य व्याप्यत्वात् । अम्बरग्रहणं भू-
तान्तराणामप्युपलक्षणम् । पारम्पर्येण तेषां तत्कार्यत्वात् । अतः
सर्वजगद्यातस्य विष्णोरित्यर्थः । पीतं कपिलवर्ण वसनं यस्ये.
ति वा तस्य संबन्धीति । अत्र पूर्वार्धे दृष्टान्तोऽलंकारः,
उपमानोपमेयानां बिम्बप्रतिबिम्बभावेन निर्देशात् । उत्तरार्धे
अतिशयोक्तिः, चेतोविषयावतरणमात्रेणातिघन दुरितनिरसन-
सामर्थ्यप्रतिपादनात् ॥ २१ ॥
 
6
 
६३
 

 
अथ महीमण्डलात्मनो जघनमण्डलस्य प्रधानमण्डनं स
मुद्रवेला त्वेन सन्ध्यात्मनो वाससः सावित्र्यात्मना उपास्यं -
काञ्चीकलापमुपास्ते–
 
यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे-
मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः ।
काथ्वी सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता
कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥
 
दाम्ना सूत्रेण, सूत्रप्रोतमणिगण सन्निवेशविशेषरूपत्वात् का-
ध्याः, 'कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा'