This page has been fully proofread once and needs a second look.

विष्णुपादादि-
इति याज्ञवल्क्यवचनाच्च । एनस: पापात् । माननीयं सर्व-

लोकैः पूज्यम्, ब्रह्माण्डस्यैवोत्पादकत्वात् ; ' अप एत्र ससर्जादौ

तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् '

इति स्मृतेः । ' काञ्चीपदं कलत्रं च कटि: श्रोणिः ककु-

द्म
की । पुरोभागोऽस्य जघनं नितम्बोऽपरभागत: ' इति

वैजयन्ती । अत्र जघनशब्दोऽपरभागस्याप्युपलक्षणपरः ।

नितम्बस्य पृथगनभिधानात् । एनसः पातु रक्षतु । 'भीत्रा-

र्थानां भयहेतु: ' इति अपादानत्वम् । रक्षणं च पूर्वजन्मा

र्
जितस्य अस्मिन् जन्मनि प्रामादिकस्य च निरसनेन वा,

इतः परं तत्राप्रवर्तनायोपाययोजनेन वा इत्युभयथा भवति ।

कथमनेन रक्षणं क्रियते इत्यत्राह – सातत्येनेति । सततभावेन

नैरन्तर्येणेत्यर्थः । एवकारो भिन्नक्रमः । चेतोविषयं मनसो

गोचरम् । अवतरत् अवगाहमानमेवेति हेतौ शता । न

प्रकारान्तरापेक्षा । तावन्मात्रेणास्माकं चरितार्थत्वादिति भावः ।

' उपपातकेषु सर्वेषु पातकेषु महत्सु च । रजन्या: पादमेकं

तु ब्रह्मध्यानं समाचरेत् । अतिपापप्रसक्तोऽपि ध्यायन्निर्वित्र-

योऽच्युतम् । भूयस्तपस्वी भवति पङ्क्तिपावनपावनः । यथा-
मि

ग्नि
रुद्धताशवःतशिख: कक्षं दहति सानिलः । तथा चित्तस्थितो

विष्णुर्योगिनां सर्वकिल्बिषम्' 'न क्रोधो न च मात्सर्ये न
यं न
लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरु-
6