This page has not been fully proofread.

विष्णुपादादि-
4
 
न्तात् प्रकाशितस्वकार्यतया निरतिशयो दर्पपर्यायो गर्वाख्यो
भावो ययोः; 'प्रीतिनिर्वृतिनिघ्नानामरागविषयेऽपि यः । प्रवृ-
त्तिं कुरुते भावः पुंसां दर्पः स उच्यते' इति दिवाकरः अधि-
जलधि जलधौ प्रलयसमुद्रे इत्यर्थः । ययोरारोग्य हठादाकृष्य
स्थापयित्वा जघान हिंसितवान् । 'आपजहि न यत्रोर्वी सलि-
लेन परिप्लुता' इति ताभ्यां प्रार्थितेन 'तथेत्युक्त्वा भगवता
शङ्खचक्रगदाभृता । कृत्वा चक्रेण वै छिन्ने ऊरुस्थे शिरसी
तयोः' इति पुराणवचनमनयोक्तिभङ्गयानुस्मारयति कविः ।
अन्योन्यतुल्यौ परस्परेण सदृशाविति तृतीयसब्रह्मचारिनिवृत्त्य-
र्थमुक्ति: । चतुरं विदग्धं अन्यूनानतिरिक्तत्वात् अनुपूर्वत्वाच्च
उपचयं बिभ्रतौ दधानौ । अभ्रनीलौ मेघवदाकाशवद्वा श्याम-
व । चारू प्रशस्तलक्षणविशिष्टतया मनोहरौ । हरे: ऊरू
मानसे हृदये । अतिशयिनीं भगवद्विग्रहानुभूत्यतिरिक्तस्य
सुखहेतोरभावात् परां कोटिमधिरूढाम् । अत्र परिक-
रोऽन्योन्यं च अलंकारः, विशेषणानां साभिप्रायत्वात् अ
न्योन्यस्य उपमानोपमेयभावाच्च ॥ २० ॥
 
अथ 'महीतलं तजघनं महीपते' इत्युक्तं भगवतो जघ
नमण्डलमुपास्ते--
पीतेन द्योतते यच्चरपरिहितेनाम्बरेणात्युदारं
जातालंकारयोगं जलमिव जलधेर्बाडबाग्निप्रभाभिः ।
 
C