This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
इत्युपमार्थपर्या लोचने उत्प्रेक्षायां पर्यवस्ति, वृत्ताकारत्वहेतुना

चित्तादिनिधानसाधनत्वेनोत्प्रेक्ष्यमाणत्वात् । सदा सज्जनहृद-

यस्य तत्र धार्यमाणत्वं च व्यज्यते ॥ १९ ॥
 

 
अथ 'ऊरुद्वयं वितलं चातलं च ' इत्युक्तमूरुद्वयमुपास्ते-

 
देवो भीतिं विधातुः सपदि विद्धतौ कैटभाख्यं मधुं चा-

प्यारोप्या रूढगर्वावधिजलधि ययोरादिदैत्यौ जघान ।

वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला-

वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥
 
५९
 
-
 

 
 
देवः नारायणः, भीतिं भयम्, विधातुः ब्रह्मणः, सपदि

टिति अचिन्तितोपगतं व्यसनमसहायस्य भयातिशयहेतुरि-

त्यर्थ: । विदधतौ कुर्वाणौ, 'तदा द्वावसुरौ घोरौ विख्यातौ

मधुकैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ' इति

पुराणवचनात् विधातृभीतिविधानोक्तिः । कैटभाख्यं कैटभ

इति आख्या नामपदं यस्य, मधु मधुसंज्ञं च, आदिदैत्यौ

सर्वेषां दैत्यानामादिभूतौ विष्णुकर्णमलोद्भूतत्वेऽपि तयोर्दैत्य-
(मो

त्वो
क्तिरसुर पर्यायत्वेन दैत्यशब्दस्य प्रसिद्धिविवक्षया, न तु दि-

त्य
पत्यत्वादिति ज्ञेयम् । आरूढगर्वो बलपराक्रमातिशयेन सम-