2023-02-16 09:31:25 by ambuda-bot
This page has not been fully proofread.
केशान्तस्तोत्रम् ।
रपि महता विस्तरेण प्रकाशितमर्थ कथंचित्प्रतिपद्यते ।
किंचित्प्रतिपादनप्रकारभेदोऽपि कश्चन कस्मैचन रोचते ।
अतः परस्मै ततोऽपि संक्षेपविस्तरावपेक्ष्येते । 'इष्ट हि
विदुषां लोके समासव्यासधारणम् ' इति व्यासोक्तेः
' भिन्नरुचिर्हि लोक : ' इति 'रुचीनां वैचित्र्यादृजुकु-
·
टिलनानापथजुषाम् ' इत्याद्याचार्यवचनात् रुच्यर्थित्वव्यु -
त्पत्तयश्चात्र मूलम् । तथा च आहु:- 'यथारुचि
यथार्थत्वं यथाव्युत्पत्ति भिद्यते । आभासो व्यर्थ
एकस्मिन्ननुसन्धानसाधित: ' इति । व्युत्पाद्यभेदापेक्षया हि
शास्त्राणि विचित्राणि विस्तीर्यन्ते । अन्यथा परिमिताक्षरोपदे-
श्येन तत्त्वेन सर्वेषां चरितार्थत्वात् किमर्थ एष विविधविक-
ल्पजल्पकल्पनाजटिलो ग्रन्थस्कन्धातिभारनिबन्ध: ? एकेनैव
मन्त्रेणाभिमतसकलार्थसिद्धौ किंप्रयोजना चेयं बहुविधमन्त्रत-
न्त्रपारतन्त्र्ययन्त्रणेत्यलमतत्त्वरसभावालंकारतरङ्गितभङ्गिप्रति-
पादनेन । सरसतामापाद्य मृदुलसरलमतीनामतिगहनेऽस्मि-
नर्थेऽवतरणार्थ सार्थक एव परानुग्रहैकसकलव्यापाराणामपा-
रज्ञानपारावाराणां भगवतामाचार्याणामारम्भ इति स्थितम् ।
प्रकृतमनुसराम: -
जलद वर्णवर्णनपरेण प्रबन्धेनैव प्रयुक्तेऽपि मङ्गले अभ्युच्चयार्थ