This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 

 
रपि महता विस्तरेण प्रकाशितमर्थं कथंचित्प्रतिपद्यते ।

किंचित्प्रतिपादनप्रकारभेदोऽपि कश्चन कस्मैचन रोचते ।

अतः परस्मै ततोऽपि संक्षेपविस्तरावपेक्ष्येते । 'इष्टं हि

विदुषां लोके समासव्यासधारणम् ' इति व्यासोक्तेः

' भिन्नरुचिर्हि लोक : ' इति 'रुचीनां वैचित्र्यादृजुकु-
·

टिलनानापथजुषाम् ' इत्याद्याचार्यवचनात् रुच्यर्थित्वव्यु -

त्पत्तयश्चात्र मूलम् । तथा आहु:- 'यथारुचि

यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासो व्यर्
थं
एकस्मिन्ननुसन्धानसाधित: ' इति । व्युत्पाद्यभेदापेक्षया हि

शास्त्राणि विचित्राणि विस्तीर्यन्ते । अन्यथा परिमिताक्षरोपदे-

श्येन तत्त्वेन सर्वेषां चरितार्थत्वात् किमर्थ एष विविधविक-

ल्पजल्पकल्पनाजटिलो ग्रन्थस्कन्धातिभारनिबन्ध: ? एकेनैव

मन्त्रेणाभिमतसकलार्थसिद्धौ किंप्रयोजना चेयं बहुविधमन्त्रत-

न्त्रपारतन्त्र्ययन्त्रणेत्यलमतत्त्वरसभावालंकारतरङ्गितभङ्गिप्रति-

पादनेन । सरसतामापाद्य मृदुलसरलमतीनामतिगहनेऽस्मि-

नर्थेऽवतरणार्थं सार्थक एव परानुग्रहैकसकलव्यापाराणामपा-

रज्ञानपारावाराणां भगवतामाचार्याणामारम्भ इति स्थितम् ।

प्रकृतमनुसराम: -
 

 
जलद वर्णवर्णनपरेण प्रबन्धेनैव प्रयुक्तेऽपि मङ्गले अभ्युच्चयार्
 
थं