This page has not been fully proofread.

विष्णुपादादि-
सम्यक् समीचीन मिति विधानक्रियाविशेषणम् । सम्यक्त्वं
च खिन्नतया सहायापेक्षसमये प्रवृत्तत्वात् । साह्यं सहभाव-
मित्यर्थः । विधातुं कर्तुम् । समं तुल्यमिति क्रियाविशेषणम् ।
सततं नित्यम्। खिन्नयोः तान्तयोः अर्थादूरुभारवहनाद्धेतोः ।
भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भस्य भावस्तत्त्वम् । गुरुत्वात्
भारीभूतस्य दुर्वद्दत्वं प्राप्तस्य ऊरुदण्डद्वयस्य भरणार्थे वहनार्थे
कृतस्योत्तम्भस्य भाव तत्त्वम् । उत्तम्भो नाम गृहादिधारणा
र्थस्य महास्तम्भस्यानवसादार्थोऽवान्तरस्तम्भः । भजेते प्रा-
प्नुतः । चित्तादर्श मनोरूपं मुकुरं स्वच्छतया भगवत्तत्त्वप्रति-
बिम्बधारत्वादादर्शस्य रूपणम् । निधातुं निक्षेप्तुम् । महितं
पूजितम्, विषयाभिषङ्गकलङ्कराहित्यात् । इह काले । सतां
योगिनाम् । अथवा इह अजिते । समुद्रायमाने समुद्गवदाच-
रती ; 'समुद्रः संपुट: पुटः' इति वैजयन्ती । द्विरददन्तादिनि-
र्मित: सपिधानो भूषणादिनिधानार्थो भाजनविशेषः समुद्गः ।
वृत्ताकारे वर्तुलसंस्थाने इत्युत्प्रेक्षाहेतुः । अजितस्य भगवतः
जानुनी ऊरुजङ्घान्तराले; पर्वफलके 'जानुरष्ठीवदस्त्रियाम्' इति
वैजयन्ती । अस्माकं हृदि हृदये । मुदं हर्षम् । स्वानुभूत्या
विधत्तां कुर्वताम्, 'विपूर्वी धाञ् करोत्यर्थे ' इति वचनात् ।
लोटि परस्मैपदप्रथमपुरुषद्विवचन मिदम् । अत्र पूर्वार्धे उत्प्रेक्षा
स्पष्टैव । उत्तरार्धे 'उपमानादाचारे कर्तु: क्यङ्सलोपश्च'
 
५८
 
;