This page has been fully proofread once and needs a second look.

विष्णुपादादि-
सम्यक् समीचीन मिति विधानक्रियाविशेषणम् । सम्यक्त्वं

च खिन्नतया सहायापेक्षसमये प्रवृत्तत्वात् । साह्यं सहभाव-

मित्यर्थः । विधातुं कर्तुम् । समं तुल्यमिति क्रियाविशेषणम् ।

सततं नित्यम्। खिन्नयोः तान्तयोः अर्थादूरुभारवहनाद्धेतोः ।

भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भस्य भावस्तत्त्वम् । गुरुत्वात्

भारीभूतस्य दुर्वद्दत्वं प्राप्तस्य ऊरुदण्डद्वयस्य भरणार्थेथं वहनार्थे
थं
कृतस्योत्तम्भस्य भाव तत्त्वम् । उत्तम्भो नाम गृहादिधारणा
-
र्थस्य महास्तम्भस्यानवसादार्थोऽवान्तरस्तम्भः । भजेते प्रा-

प्नुतः । चित्तादर्शं मनोरूपं मुकुरं स्वच्छतया भगवत्तत्त्वप्रति-

बिम्बधारत्वादादर्शस्य रूपणम् । निधातुं निक्षेप्तुम् । महितं

पूजितम्, विषयाभिषङ्गकलङ्कराहित्यात् । इह काले । सतां

योगिनाम् । अथवा इह अजिते । समुद्रागायमाने समुद्गवदाच-

रती ; 'समुद्रःग: संपुट: पुटः' इति वैजयन्ती । द्विरददन्तादिनि-

र्मित: सपिधानो भूषणादिनिधानार्थो भाजनविशेषः समुद्गः ।

वृत्ताकारे वर्तुलसंस्थाने इत्युत्प्रेक्षाहेतुः । अजितस्य भगवतः

जानुनी ऊरुजङ्घान्तराले; पर्वफलके 'जानुरष्ठीवदस्त्रियाम्' इति

वैजयन्ती । अस्माकं हृदि हृदये । मुदं हर्षम् । स्वानुभूत्या

विधत्तां कुर्वताम्, 'विपूर्वीवो धाञ् करोत्यर्थे ' इति वचनात् ।

लोटि परस्मैपदप्रथमपुरुषद्विवचन मिदम् । अत्र पूर्वार्धे उत्प्रेक्षा

स्पष्टैव । उत्तरार्धे 'उपमानादाचारे कर्तु: क्यङ्सलोपश्च'
 
५८
 
;