This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
6
 
नुनी जङ्घे ' इति वैजयन्ती । नारायणीये जलशायिनो
भगवतः संबन्धिन्यौ । वृद्धाच्छ: ' इति छः ।
' आपो
मारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वे
तेन नारायणः स्मृतः : इति स्मृतेः । नार: नरसमुदाय:
तस्य अयनम् आश्रयः इत्युक्तरीत्या परमात्मा वा नारायणः ।
मुहुः क्षणेन अनुक्षणं वा; 'मुहुः क्षणेऽनुक्षणे च' इति
वैजयन्ती । शीघ्रमस्मदंहः अस्मत्संबन्धि दुरितं हरन्त्यौ;
' अंहो दुरितदुष्कृते' इत्यमरः । वाङ्मनःकायैर्बुद्धिपूर्वम
बुद्धिपूर्व वा क्रियमाणमनुक्षणं हरन्त्याविति वा । क्षणेन
हरन्त्याविति तत्कालविशेषणं वा विशिष्टस्यैव प्रार्थना ।
जङ्घे अपि जयतां सर्वोत्कर्षेण वर्तताम् । लोटि परस्मैपदप्र-
थमपुरुषद्विवचनम् । अत्र स्वभावोक्तिर्निदर्शना च अलं-
कारः ॥ १८ ॥
 
५७
 
9
 
अथ 'ऊरुजङ्घान्तरालवर्तिनी जानुनी सुतलं विश्वमूर्ते: '
इत्यायुक्तं जानुद्वयमुपास्ते-
सम्यक्साह्यं विधातुं सममिव सततं जयो: खिन्नयोर्ये
भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते ।
चित्तादर्श निधातुं महितमिह सतां ते समुद्गायमाने
वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥