This page has been fully proofread once and needs a second look.

विष्णुपादादि-
सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे

जङ्घे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ ।
 
;
 

 
श्रीशब्देनात्र समुदायशोभा उच्यते । श्रिया सर्वप्रकारया

कान्त्या नित्ययुक्ते । नित्ययोगे मतुप् । तस्यार्थस्य प्रपञ्चनमु

पक्रियते । चकारो वाक्यार्थान्तरसमुच्चये । जङ्गेघे च जयता-

मित्यन्वयः । अनुवृत्ते पूर्वभागानुसारेण वर्तुलाकारे; 'वृत्तं च

वर्तुलम् ' इत्यमरः । ' वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे उभे

सृष्टवतस्तदीये' इति कुमारसंभवोक्तेः । चारुवृत्ते च इत्यर्थः ।

रमायाः पद्मवासिन्या: । करपरिमलनं हस्ताभ्यां संवाहनं तज्ज-

नितेनानन्दसुखानुभवेन हृष्टे रोमाञ्चिते । सौन्दर्याढ्येन निर्दो-

तया समग्रगुणतया च शोभया पूर्णेन इन्द्रनीलोपलेन महा-

नीलाख्यरत्नविशेषेण रचितयोः निर्मितयोः दण्डयो: यष्टयोः
ट्यो:
कान्तिचोरे शोभाया मोषिके, वृत्तायतस्निग्धस्थूलनीलमसृण-

त्वादिगुणयोगात् । सूरीन्द्रै: ज्ञानिश्रेष्ठैः सनकादिभिः स्तूय-

माने प्रशस्यमाने । तत्र हेतु: सुरकुलसुखदे सुरशब्द: सा.
-
त्त्विकजनोपलक्षणार्थ: । सुराणां कुलस्य वंशस्य सुखं दातुं

शीलं ययोः । तत्र हेतु: सूदितारातिसंघे सूदिताः शीघ्रं

धावित्वा निर्दयाघातैर्मारिताः अरातीनां धर्मद्रुहां संघाः

समूहा याभ्याम् । जङ्केघे जानुगुल्फयोरन्तरालप्रदेशौ 'प्रसृते जा-
.