This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
त्याल्लक्ष्यते । कूर्मपृष्ठवत् वृत्तोत्तुङ्गमसृणमित्यर्थः । 'प्रपदा-

ज्जितकच्छपात्' इत्यादिप्रयोगात् कूर्मग्रहणम् । श्रेयःप्रदायि

स्मरणादिभिर्लोकद्वयसुखप्रदानशीलम् । हरे: भक्तानामात-

ङ्क
हरणात् हरिशब्दवाच्यस्य भगवतः, ' मामेव ये प्रपद्यन्ते

मायामेतां तरन्ति ते । तेषामहं समुद्धर्ता मृत्युसंसारसागरात् '

इत्यादिस्मृतेः । प्रपदयुगं पादयोः पृष्ठभागद्वयम् :; 'प्रपदं

चरणाग्रम् ' इति वैजयन्ती । इदं यच्छब्देन यत्परामृष्टं

तदिदमित्यर्थः । प्रापयेत् गमयतु । पापं वाङ्मनःकायोपा-

र्
जितं दुष्कर्म कर्मभूतम् । अन्तम् अवसानं प्रापयेत् पुनरनुत्था-

नाय विलापयेत् इति प्रार्थनायां लिङ् । 'अन्तोऽस्त्र्यवसिते

मृत्यौ' इति वैजयन्ती । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा-

कर्मकाणामणि कर्ता स गौणौ ' इति गत्यर्था द्विकर्मकाः । अत्र

पूर्वार्धे उत्प्रेक्षा उत्तरार्धे निदर्शनालंकारः । अत्र च ' पार्ष्णि-

प्रपदे रसातलम्' इति वचनात् गुल्फयोश्च तदङ्गभूतत्वात्

'महातलं विश्वसृजोऽस्य गुल्फौ' इत्युक्तत्वात् प्रपदोपासनेनैव
पा

पार्ष्
णिगुल्फयोरुपासनं कृतमिति वेदितव्यम् ॥ १७ ॥
 

 
अथ क्रमप्राप्तं 'तलातलं वै पुरुषस्य जयेङ्घे ' इति स्मृतं
महा

जङ्घा
द्वयमुपास्ते-

 
श्रीमत्यौ चानुवृत्ते करपरिमलनानन्दहृष्टे रमाया:
मौ

सौ
न्दर्याढ्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचोरे ।