This page has not been fully proofread.

विष्णुपादादि-
पादाम्भोजन्मसेवासमवनतसुरव्रात भास्वत्किरीट-
प्रत्युप्तोच्चावचाश्मप्रकरकरगणैश्चितिं यद्विभाति ।
नम्राङ्गानां हरेनों हरिदुपलमहाकूर्म सौन्दर्यहारि-
च्छायं श्रेयः प्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥
 
पादाम्भोजन्मनो: चरणसरसिजयोः सेवायै उपासनार्थे
समवनतस्य सम्यक्कृतनमस्कारस्य सुव्रातस्य देवसमूहस्य
भास्वत्सु जाम्बूनदमयत्वेन दीतेषु किरीटेषु मकुटेषु प्रत्युतानां
न्यस्तानाम्, रत्नन्यासस्य प्रत्युप्तत्वप्रसिद्धेः 'तस्योल्लसत्काञ्चनकु-
ण्डलाग्र प्रत्युप्तगारुत्मतरत्नभासा ' इत्यादि प्रयोगात् । उच्चावचा
नां नानाविधवर्णसंस्थानजातिभेदानाम् 'उच्चावचं नैकभेदम् '
इत्यमरः । अश्मनां रत्नानां प्रकरस्य संघातस्य करा: किर
णाः तेषां गणैः संचयैः चित्रितं संजातलेख विभाति, तद्वि-
शिष्टत्वेन शोभत इत्यर्थः । अथवा द्योतकशून्योयेक्षया चित्रि-
तमिव भातीत्यर्थः । नम्राङ्गानां भक्तिवशात् स्वयमेव नमन-
शीलं शरीरं येषाम् । नः अस्माकम् । हरिदुपलं मरकतशि-
ला ; 'गारुत्मतं मरकतमश्मगर्भ हरिन्मणिः ' इति वैजयन्ती ;
तेन निर्मितः उरुः कच्छप: हरिदुपलमहाकूर्म: तस्य सौ-
न्दर्य कान्तिं हतु चोरयितुं शीलं यस्याः सा; 'छायानातपशो-
भयोः' इति वैजयन्ती । कूर्मशब्देनात्र कूर्मपृष्ठकपालमौचि
 
-