This page has been fully proofread once and needs a second look.

विष्णुपादादि-
पादाम्भोजन्मसेवासमवनतसुरव्रात भास्वत्किरीट-

प्रत्युप्तोच्चावचाश्मप्रकरकरगणैश्चितिंत्रितं यद्विभाति ।

नम्राङ्गानां हरेनोंर्नो हरिदुपलमहाकूर्म सौन्दर्यहारि-

च्छायं श्रेयः प्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥
 

 
पादाम्भोजन्मनो: चरणसरसिजयोः सेवायै उपासनार्थे

समवनतस्य सम्यक्कृतनमस्कारस्य सुव्रातस्य देवसमूहस्य

भास्वत्सु जाम्बूनदमयत्वेन दीप्तेषु किरीटेषु मकुटेषु प्रत्युप्तानां

न्यस्तानाम्, रत्नन्यासस्य प्रत्युप्तत्वप्रसिद्धेः 'तस्योल्लसत्काञ्चनकु-

ण्डलाग्र प्रत्युप्तगारुत्मतरत्नभासा ' इत्यादि प्रयोगात् । उच्चावचा
-
नां नानाविधवर्णसंस्थानजातिभेदानाम् 'उच्चावचं नैकभेदम् '

इत्यमरः । अश्मनां रत्नानां प्रकरस्य संघातस्य करा: किर
-
णाः तेषां गणैः संचयैः चित्रितं संजातलेखं विभाति, तद्वि-

शिष्टत्वेन शोभत इत्यर्थः । अथवा द्योतकशून्योयेत्प्रेक्षया चित्रि-

तमिव भातीत्यर्थः । नम्राङ्गानां भक्तिवशात् स्वयमेव नमन-

शीलं शरीरं येषाम् । नः अस्माकम् । हरिदुपलं मरकतशि-

ला ; 'गारुत्मतं मरकतमश्मगर्भं हरिन्मणिः ' इति वैजयन्ती ;

तेन निर्मितः उरुः कच्छप: हरिदुपलमहाकूर्म: तस्य सौ-

न्दर्यं कान्तिं हतुर्तुं चोरयितुं शीलं यस्याः सा; 'छायानातपशो-

भयोः' इति वैजयन्ती । कूर्मशब्देनात्र कूर्मपृष्ठकपालमौचि
 
-