2023-05-09 02:23:25 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
6
विष्णुपादादि-
स्वं
यस्यां दृष्ट्वामलायां प्रतिकृतिममराः स्वां भवन्त्यानमन्तः
सेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशङ्कयातङ्कवन्तः ।
सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न-
श्
।
अमलायां स्फटिकमुकुरवत् स्वच्छरूपायामिति स्फुटप्रति-
बिम्बालम्भे हेतुः । स्वां प्रतिकृतिं स्वशब्देन अमराः परामृश्य-
न्ते । आत्मसंबन्धीनि प्रतिबिम्बानि 'प्रतिमानं प्रतिकृतिः
प्रतिच्छायम्' इति हलायुधः । आनमन्त: नमस्कुर्वाणा इति
दर्शने हेतुः । सेन्द्राः इन्द्रेण सहिताः । अमरा: देवा: आ-
दित्यवसुरुद्राश्विप्रमुखास्त्रयस्त्रिंशत्कोटिसंख्याः । सान्द्रीकृतेर्ष्याः
दर्शनेन बहुलीकृता ईर्ष्या अक्षमा येषाम् ; 'अक्षान्तिरी
इत्यमरः । भगवदुपासनायागतानां कथमीर्ष्याप्रसङ्ग इत्य-
त्रा - तुर्विशेषे; अपरसुरकुलाशङ्कया अस्मद्व्यतिरिक्तं सुराणां
देवानां कुलं वंशः कथमत्र वर्तते इत्याशङ्कया चिन्तया । न तु
स्वप्रतिकृतिबुद्धिस्तेषामित्यनेन स्पष्टदृष्टत्वात् प्रतिबिम्बबुद्धिः
किंचिदपि नोत्पन्नेति भावः । आतङ्कवन्तः भयभूयिष्ठाः
'आतङ्को भयम्' इति वैजयन्ती। भगव
-