This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
पादद्वयस्य पादयोर्द्वयस्य अग्रे विमलनखमणिभ्राजिता
विशुद्धैर्नखरूपै: रत्तै: मुक्तामणिभिरित्यर्थः, भ्राजिता दीप्ता,
'भ्राज़ दी तौ' इति धातुः । राजते शोभते, 'राजदीप्तौ '
इति धातुः । राजीवस्य पद्मस्य, अग्रे इत्यर्थादायाति, पाद-
ट्र्यामे इत्युक्तेः । तत्रापि द्वयस्येति वक्तव्ये समासो गमक-
त्वात् कृतः । 'बिसप्रसूनं राजीवं कमलम् इत्यमरः । रम्या
कालविकासेन हृद्या । हिमजलकणिकालंकृताग्रा हिमजलस्य
शीकरै भूषितान्यप्राणि यस्याः । दलाली पत्राणां पङ्किः, 'बी-
ध्यालिरावलिः पतिः श्रेणी लेखास्तु राजयः' इत्यमरः ।
विस्मयाणि, अहो अस्य सुकृतपरिणति : - इति सर्वेषामाश्च -
र्यबुद्धियोग्यानि । अखिलजनमनः प्रार्थनीयानि सर्वेषां जनानां
मनोभिरेषणीयानि । मनोग्रहणेन 'मनोरथानामगतिर्न विद्यते '
इति न्यायात् दुर्लभेऽपि वस्तुनि मन: प्रवृत्तेस्तथाविधत्वमेतेषां
श्रोत्यते । सा यच्छब्देन परामृष्टा अनुभूयमाना । आद्या
भादौ भवा भगवन्मूर्तेरनादित्वात् । अनवद्या अवद्यमप्रशस्तं
लक्षणमन्योन्यन्यूनातिरिक्तत्वादि तद्रहिता । अतिरुचिरा । उ-
लक्षण विशिष्टतया अत्यन्तं मनोहरा । मङ्गलानि अभ्युदयानि
यः साधनानि अङ्गुलीनां ततिः पादशाखानामावलिः । अत्र
४ान्तोऽलंकारः, पादद्वयाङ्गुलीनखमणीनां राजीवदलाली-
दिमजलकणिकानां च विम्बप्रतिबिम्बभावेन निर्देशात् ॥१५॥
 
-