This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
पादद्वयस्य पादयोर्द्वयस्य अग्रे विमलनखमणिभ्राजिता

विशुद्धैर्नखरूपै: रत्तैनै: मुक्तामणिभिरित्यर्थः, भ्राजिता दीप्ता,

'भ्राजृ दी प्तौ' इति धातुः । राजते शोभते, 'राजृदीप्तौ '

इति धातुः । राजीवस्य पद्मस्य, अग्रे इत्यर्थादायाति, पाद-
ट्र्यामे

द्वयाग्रे
इत्युक्तेः । तत्रापि द्वयस्येति वक्तव्ये समासो गमक-

त्वात् कृतः । 'बिसप्रसूनं राजीवं कमलम्' इत्यमरः । रम्या

कालविकासेन हृद्या । हिमजलकणिकालंकृताग्रा हिमजलस्य

शीकरै र्भूषितान्यप्ग्राणि यस्याः । दलाली पत्राणां पङ्किः, 'बीवी-
ध्

थ्
यालिरावलिः पतिःङ्क्ति: श्रेणी लेखास्तु राजयः' इत्यमरः ।

विस्मयार्हाणि, अहो अस्य सुकृतपरिणति : - इति सर्वेषामाश्च -

र्यबुद्धियोग्यानि । अखिलजनमनः प्रार्थनीयानि सर्वेषां जनानां

मनोभिरेषणीयानि । मनोग्रहणेन 'मनोरथानामगतिर्न विद्यते '

इति न्यायात् दुर्लभेऽपि वस्तुनि मन: प्रवृत्तेस्तथाविधत्वमेतेषां
श्रो

द्यो
त्यते । सा यच्छब्देन परामृष्टा अनुभूयमाना । आद्या
भा

दौ भवा भगवन्मूर्तेरनादित्वात् । अनवद्या अवद्यमप्रशस्तं

लक्षणमन्योन्यन्यूनातिरिक्तत्वादि तद्रहिता । अतिरुचिरा । उ-

क्त
लक्षण विशिष्टतया अत्यन्तं मनोहरा । मङ्गलानि अभ्युदयानि

श्रे
यः साधनानि अङ्गुलीनां ततिः पादशाखानामावलिः । अत्र
४ा

दृष्टा
न्तोऽलंकारः, पादद्वयाङ्गुलीनखमणीनां राजीवदलाली-
दि

हि
मजलकणिकानां च विबिम्बप्रतिबिम्बभावेन निर्देशात् ॥१५॥
 
-