This page has not been fully proofread.

५०
 
विष्णुपादादि-
यया ' इति भगवद्वचनात्,
 
समस्तशक्तिरूपाणि तत्क-
रोति महामते । देवतिर्यङ्मनुष्याद्याश्चेष्टावन्ति स्वलीलया '
इति श्री विष्णुपुराणवचनाच्च । महद्भयः सकल पुरुषार्थप्रसा-
वकतया प्रत्युपक्रियानिरपेक्षपरोपकारैक निरतेभ्यः भगवदनपे-
क्षया स्वातन्त्र्येण भक्तानुग्राहकेभ्यश्च । भगवतस्तु पादप्रणा-
मसापेक्षतयैवोपकारकत्वात् 'अवाप्तव्यान्यपारतानि यस्य स
र्वाणि देहिनः । परोपकारव्यसनी स महात्माभिधीयते
इति भावप्रकाशः । विश्वंभराव्यात्यैवाकारमहत्त्वस्योक्त
त्वात् । सततं सर्वदा । अपिरभिव्याप्तौ । नमः प्रणामः
अस्तु अविच्छिन्नसत्ताकं वर्तताम् । रुहेभ्यः पाद-
पद्मेभ्यः । 'नमः स्वस्ति' इत्यादिना चतुर्थी । अत्र स्वभावो-
क्तिरलंकारः ॥ १४ ॥
 
6
 
6
 
:
 
पातालमेतस्य हि पादमूलम्' इत्युक्तेः पातालरूपं पाद-
द्वयमुपास्य इदानीं पादद्वयस्याङ्गिन अङ्गभूताः प्रसङ्गात् पाता-
लप्रदेश विशेषभूताः अङ्गुलीरुपास्ते -
 
विष्णो: पादद्वयाप्रे विमलनखमणिभ्राजिता राजते या.
राजीवस्येव रम्या हिमजलकणिकालंकृताम्रा दलाली ।
अस्माकं विस्मग्रार्हाण्यखिलजनमनःप्रार्थनीयानि सेयं
दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥