This page has been fully proofread once and needs a second look.

५०
 
विष्णुपादादि-
यया ' इति भगवद्वचनात्,
 
'समस्तशक्तिरूपाणि तत्क-

रोति महामते । देवतिर्यङ्मनुष्याद्याश्चेष्टावन्ति स्वलीलया '

इति श्री विष्णुपुराणवचनाच्च । महद्भयः सकल पुरुषार्थप्रसा-

वकतया प्रत्युपक्रियानिरपेक्षपरोपकारैक निरतेभ्यः भगवदनपे-

क्षया स्वातन्त्र्येण भक्तानुग्राहकेभ्यश्च । भगवतस्तु पादप्रणा-

मसापेक्षतयैवोपकारकत्वात् 'अवाप्तव्यान्यपास्तानि यस्य स
-
र्वाणि देहिनः । परोपकारव्यसनी स महात्माभिधीयते
'
इति भावप्रकाशः । विश्वंभराव्यात्यैवाकारमहत्त्वस्योक्त

त्वात् । सततं सर्वदा । अपिरभिव्याप्तौ । नमः प्रणामः

अस्तु अविच्छिन्नसत्ताकं वर्तताम् । अङ्घ्रिपङ्केरुहेभ्यः पाद-

पद्मेभ्यः । 'नमः स्वस्ति' इत्यादिना चतुर्थी । अत्र स्वभावो-

क्तिरलंकारः ॥ १४ ॥
 
6
 
6
 
:
 

 
पातालमेतस्य हि पादमूलम्' इत्युक्तेः पातालरूपं पाद-

द्वयमुपास्य इदानीं पादद्वयस्याङ्गिन अङ्गभूताः प्रसङ्गात् पाता-

लप्रदेश विशेषभूताः अङ्गुलीरुपास्ते -
 

 
विष्णो: पादद्वयाप्ग्रे विमलनखमणिभ्राजिता राजते या.

राजीवस्येव रम्या हिमजलकणिकालंकृताम्ग्रा दलाली ।

अस्माकं विस्मग्रायार्हाण्यखिलजनमनःप्रार्थनीयानि सेयं

दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥