This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
-
 
तिभूतपादद्वयविकृतितः विलक्षणादन्येषां येभ्य इति बहुवच-
नप्रयोगः । कथं बहुत्वमवगम्यते इत्यत्राह - साहस्रीति,
सहस्रपरिमिता ' तपः सहस्राभ्यां विनीनौ, अणू च ' इत्यण् ।
न्चकारः अपिवत् समुच्चयार्थः । संख्या गणना प्रकट
स्पष्टं लिङ्गवाक्यादिव्यतिरेकेण श्रुत्यैव साक्षादित्यर्थ: । अभिहि-
ता उक्ता । सर्ववेदेषु ऋग्यजुः सामाख्ये वेदत्रये 'सहस्रशीर्षा
पुरुषः । सहस्राक्षः सहस्रपात् ' इत्यादिवचनैः । पुरुषसूक्तस्त्र
सर्ववेदेषु साम्यात् सर्ववेदेश्वित्युक्तिः । 'उद्धृतासि वराहेण
कृष्णेन शतबाहुना' इति मन्त्राच्च । विश्वंभरा भूमि-
यता सर्वतः समाक्रान्ता । अतिवितततनोः स्थूल-
रूपेण विवृत्तस्य । कथं विवृत्तत्वमित्यत्राह - विश्वं चरात्र-
रभूतविशिष्टं ब्रह्माण्डं मूर्तिर्विग्रहो यस्य । तदानीं विराज:
विविधं राजतो विराट्संज्ञस्य हिरण्यगर्भस्येत्यर्थः । 'हिरण्य-
गर्भ: समवर्तताग्रे' इति श्रुतेः । 'सहस्रसंख्यैर्गगनं शिरोभिः
पार्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मि-
निशाकरं साधु हिरण्यगर्भम्' इति माघोक्तेः । विष्णोरिति
विशेष्यनिर्देशः । 'अन्तर्बहिश्च तत्सर्व व्याप्य नारायण:
स्थित : ' इति श्रुतेः व्याप्तस्य अरूपस्य परमात्मन इति अनेन
लीलाविग्रहत्वं प्रकाश्यते, 'अजोऽपि सन्नव्ययात्मा भूता-
नामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममा-
4
 
४९