This page has been fully proofread once and needs a second look.

४ विष्णुपादादि-

हंकारमीश्वरः । बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् '
इति, 'भूतादिस्तु विकुर्वाण: शब्दतन्मात्रकं ततः' इति,
'शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम्' इत्यादि विशि-
ष्टार्थप्रतिपत्त्यर्थविवेचनैः समग्रज्ञानप्रकाशकस्य शब्दब्रह्मात्म-
कस्य शङ्खराजस्य प्रथमं वर्णनेनावर्जनं विशिष्टार्थप्रतिपत्त्यर्थं
करोति—
 
लक्ष्मी भर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं
नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति ।
पायान्न: पाञ्चजन्य: स दितिसुतकुलत्रासनैः पूरयन्स्वै-
र्निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराज: ‌‌‌॥ १ ‌॥
 
ननु 'प्रसन्नवदनं चारुपद्मपत्रायतेक्षणम्' इत्यादिभिः
पुराणेष्वेव धारणाधारस्य श्रीधरविग्रहस्य वर्णितत्वात् किमि-
दानीं वर्णनान्तरप्रयासेन ? अत्रोच्यते- इह खलु उत्तमम-
ध्यममन्दभेदेन अधिकारिणो बहुविधा भवन्ति । तत्रोत्तमः
पुरातनजन्मशतोपार्जितपुण्यवासनावशात् प्रसन्नान्तःकरणो वा-
वाक्यश्रवणमात्राच्च शाकवदाप्नुयादित्याचार्योक्तक्रमेण संक्षिप्य
सत्कृतोपदेशेन करतलकलितमिव कनककटकमभिमतमर्थम-
नुभवति । मध्यमस्तु कविविस्तरमपेक्षते । मन्दमति: पुन-