This page has been fully proofread once and needs a second look.

विष्णुपादादि-
इं

 
हं
कारमीश्वरः । बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् '

इति, 'भूतादिस्तु विकुर्वाण: शब्दतन्मात्रकं ततः' इति,

'शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम्' इत्यादि विशि-

ष्टार्थप्रतिपत्त्यर्थविवेचनैः समग्रज्ञानप्रकाशकस्य शब्दब्रह्मात्म-

कस्य शङ्खराजस्य प्रथमं वर्णनेनावर्जनं विशिष्टार्थप्रतिपत्त्यर्
थं
करोति—
 
:
 

 
लक्ष्मी भर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं

नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति ।

पायान्न: पाध्वञ्चजन्यःय: स दितिसुतकुलत्रासनैः पूरयन्स्वै-

र्
निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ज: ‌‌‌॥ १
 
6
 

 
ननु 'प्रसन्नवदनं चारुपद्मपत्रायतेक्षणम्' इत्यादिभिः

पुराणेष्वेव धारणाधारस्य श्रीधरविग्रहस्य वर्णितत्वात् किमि-

दानीं वर्णनान्तरप्रयासेन ? अत्रोच्यते-
इह खलु उत्तमम-

ध्यममन्दभेदेन अधिकारिणो बहुविधा भवन्ति । तत्रोत्तमः

पुरातनजन्मशतोपार्जितपुण्यवासनावशात् प्रसन्नान्तःकरणो वा-
स्

वाक्
यश्रवणमात्राच्च शाकवदाप्नुयादित्याचार्योक्तक्रमेण संक्षिप्य

सत्कृतोपदेशेन करतलकलितमिव कनककटकमभिमतमर्थम-

नुभवति । मध्यमस्तु कविविस्तरमपेक्षते । मन्दमति: पुन-
——