This page has not been fully proofread.

विष्णुपादादि-
प्ता विश्वंभरा
 
यैरतिवितततनोर्विश्वमूर्तेर्विराजो
विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोस्त्ववपङ्केरुहेभ्यः ॥
 
येभ्योऽपादानभूतेभ्यश्चतुर्थो वर्ण: शूद्राख्यः 'वर्णा: स्यु -
ब्राह्मणादयः' इत्युक्तक्रमेण ब्राह्मणक्षत्रियविशाख्यानां चतुर्थ-
त्वात् वर्णत्रये मुखवाहूरुभ्य उद्भूते पश्चादित्यर्थः । उदभूत्
उद्भूतः । उदभूदित्यनेन संकल्पमात्रादनायासेनाविर्भूतत्त्रं
ध्वन्यते, ' सिद्धार्थ : सिद्धसंकल्प: ' इति वचनात् । अव्यक्तं जा-
यते चास्य मनसा यद्यदिच्छति । वशकृित्वा तु त्रैगुण्यात् साका-
क्षत्वात् स्वभावतः : इति वायुवचनात् । प्रजानामादिसर्गे
महाप्रलयावसाने कल्पस्य प्रथमकृतयुगारम्भे ब्रह्मादिकर्तृक-
सर्गात् पूर्व भगवत्कर्तृकजगन्निर्माणकाल इत्यर्थः, 'चतुर्यु-
गान्यशेषाणि सहशानि स्वरूपतः । अन्यं कृतयुगं मुक्त्वा
मैत्रेयान्त्यं तथा कलिम् । आद्ये कृतयुगे सर्गः क्रियते
ब्रह्मणा यतः । क्रियते चोपसंहारस्तथान्त्ये च कलौ
युगे इति श्रीविष्णुपुराणवचनात् । 'वर्णत्रगशुश्रूषया
धर्म स्थापनादनायास धर्मार्जनत्वात् शूद्रः साधुः इति व्या-
सादिमहर्षिभिः स्तुतस्य तुरीयवर्णस्योत्पत्तिस्थानकथनं भग-
त्पादानां स्तुतित्वेन परिणमति । 'पद्धयां शूद्रो अजा-
यत' इति श्रुतेः । तत्र पद्धयामिति द्विवचनप्रयोगेऽपि प्रकृ
 

 

 
४८
व्या