This page has been fully proofread once and needs a second look.

युगपत् तुल्यकालम् । अपिर्भिन्नक्रमः । विपत्संपदोरपीति
संबन्धः । विपदः असमग्रैश्वर्यरूपाया आपदः, संपदस्तद्वि-
पर्ययरूपाया: समृद्धेरपि । एकधाम परां काष्ठाम् । ताम्रो-
दराभ्याम् अरुणतलाभ्याम् । मुहुः अनुक्षणम् । अजितस्य
विष्णो:, 'जय जय जह्यजामजित दोषगृभीतगुणाम्' इत्या-
दिपुराणवचनात् । अञ्चिताभ्याम् अविशेषेण सर्वै: पूजिता-
भ्याम् । द्विवचनेन द्वित्वे सिद्धेऽपि उभाभ्यामिति संख्याग्रहणं
वक्ष्यमाणसंख्याधिक्यकटाक्षीकारेण पूर्वं प्रकृतिभूतद्वित्व-
विषयप्रावण्यद्योतनार्थम् । प्राज्यैश्वर्यप्रदाभ्यां प्रकृष्टमीश्व-
रत्वं भगवद्भावमेव प्रदातुं समर्थाभ्याम् । 'प्रे दाज्ञ:'
इति कः । पादपङ्केरुहाभ्यां मुहुः प्रणतिमुपगतः अ-
नुक्षणं प्रकृष्टां नतिं मनोवाक्कायप्रावण्यं प्राप्तोऽस्मीत्यर्थः ।
'नमः स्वस्तिस्वाहास्वधालंवषट्योगाच्च ' इति चतुर्थी । अत्र
विशेषो विरोधश्चालंकारः, त्रिलोक्याक्रमणेन प्रस्तुतेन विप
त्संपद्रूपवस्त्वन्तरकरणात् युगपद्विरुद्धकार्यकरणाच्च ॥ १३ ॥
 
अथोपासनाभेदात् फलभेदं प्रापयंस्तावेवावस्थाभेदात्
बहुत्वं प्राप्तावुपास्ते-
 
तेयेभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां
साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् ।