This page has not been fully proofread.

विष्णुपादादि-
6
 
पादौ । नः पाताम् अस्मान् रक्षेताम् । पा रक्षणे'
इत्यस्मालोटि प्रथमपुरुषद्विवचनमिदम् । एताविति इत्थंभू-
तयोः पादयोर्ग्रहणं तदानीं तयोर्जगदनुग्रहाय प्रबुद्धनिजप्र-
भात्वात् रक्षणस्य सुकरतां द्योतयितुम् । उपरितन श्लोकेऽप्य-
यमर्थोऽनुसन्धेयः । उत्प्रेक्षा निदर्शना च अत्राप्यलंकारः ॥
 
आक्रामद्धयां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ
याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम ।
साभ्यांताम्रोदराभ्यांमुहुरहमजितस्याश्विताभ्यामुभाभ्यां
प्राज्यैश्वर्य प्रदाभ्यां प्रणतिमुपगतः पादपकरुहाभ्याम् ॥
 
त्रिलोकी भूम्यन्तरिक्षस्वर्गात्मकं लोकत्रयसमाहारम् । आ-
कामद्भयां समन्तान्मिमानाभ्याम् । असुरसुरपती वैरोचनीन्द्रौ
यथासंख्य मसुराणां पतिर्वैरोचनिः बलिः, ' विरोचनब्ध प्रहा-
दावलिर्जशे विरोचनात्' इति पुराणवचनात् । सुराणां
पतिरिन्द्रश्च । 'अल्पाच्तरम्' इति इन्द्रशब्दस्य पूर्वनिपाते
प्राप्ते त्रैलोक्यैश्वर्यादिन्द्रात् समग्रैश्वर्यपरमधार्मिकस्य वैरोचनेः
अभ्यर्हितत्वद्योतनार्थ पूर्वनिपातः । विशेषणेन सपक्षसहितयो-
र्निग्रहानुग्रहावाह । आक्रामद्भयामिति शत्रा प्रारम्भं सूचयन्
तत्क्षणा देवेत्यप्रतीकारत्वबुद्धिं प्रकाशयति । नीतौ प्रापितौ ।