This page has been fully proofread once and needs a second look.

विष्णुपादादि-
6
 
पादौ । नः पाताम् अस्मान् रक्षेताम् । पा रक्षणे'

इत्यस्माल्लोटि प्रथमपुरुषद्विवचनमिदम् । एताविति इत्थंभू-

तयोः पादयोर्ग्रहणं तदानीं तयोर्जगदनुग्रहाय प्रबुद्धनिजप्र-

भात्वात् रक्षणस्य सुकरतां द्योतयितुम् । उपरितन श्लोकेऽप्य-

यमर्थोऽनुसन्धेयः । उत्प्रेक्षा निदर्शना च अत्राप्यलंकारः ॥
 

 
आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ

याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम ।
सा

ता
भ्यां ताम्रोदराभ्यां मुहुरहमजितस्याश्विञ्चिताभ्यामुभाभ्यां

प्राज्यैश्वर्य प्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम् ॥
 

 
त्रिलोकीकीं भूम्यन्तरिक्षस्वर्गात्मकं लोकत्रयसमाहारम् । आ-
का

क्रा
मद्भयां समन्तान्मिमानाभ्याम् । असुरसुरपती वैरोचनीन्द्रौ

यथासंख्य मसुराणां पतिर्वैरोचनिः बलिः, ' विरोचनब्ध प्रहाश्च प्रह्ला-

दाद्बलिर्जशेज्ञे विरोचनात्' इति पुराणवचनात् । सुराणां

पतिरिन्द्रश्च । 'अल्पाच्तरम्' इति इन्द्रशब्दस्य पूर्वनिपाते

प्राप्ते त्रैलोक्यैश्वर्यादिन्द्रात् समग्रैश्वर्यपरमधार्मिकस्य वैरोचनेः

अभ्यर्हितत्वद्योतनार्थं पूर्वनिपातः । विशेषणेन सपक्षसहितयो-

र्निग्रहानुग्रहावाह । आक्रामद्भ्यामिति शत्रा प्रारम्भं सूचयन्

तत्क्षणा देवेत्यप्रतीकारत्वबुद्धिं प्रकाशयति । नीतौ प्रापितौ ।