This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
स्थः
 
शुद्धधवलवर्णा । कान्ता नीलधवलवर्णयोर्योोंगे परभागलाभा-
दर्शनीया । वैजयन्ती ध्वजपटीव । 'वैजयन्ती पताकायां
जयन्त्यां केशवस्रजि' इति वैजयन्ती । बभासे अशोभिष्ट ।
भक्तानां सकलमङ्गलार्थमुक्तमभितः सपटीको ध्वजस्तम्भ
इवेति । भूमिष्ठः भूमण्डलं क्रान्त्वा स्थितः 'अम्बाम्ब-
गोधूमिसव्यापद्वित्रिकुशेकुशङ्कङ्गुमञ्जिपुञ्जिपरमेबर्हिभ्यः
इति षत्वम् । तथेति वृत्तानुपूर्वत्वादिगुणातिदेशः । अन्यः
पूर्वोक्तादपरः । भुवनगृहबृहत्स्तम्भशोभां ब्रह्माण्डमण्डपस्य
यो महान् समग्रभरसह स्तम्भः स्थूणादण्डः तस्य शोभां
तत्सदृश कान्तिमित्यर्थः । दधौ धारयति स्म । अत्रान्यस्य
शोभामन्यः कथं वहतीति तत्सदृशीं शोभामिति निदर्शना
यद्यप्युपमा परिकल्प्यते, तथाप्यर्थगतिपर्यालोचनया पुनरु
त्प्रेक्षायां पर्यवस्यति । भगवत्पदस्यैव तथाविधस्तम्भत्वे-
नोत्प्रेक्ष्यमाणत्वात् । न हि स्तम्भस्तथाविधः कश्चित् पूर्वे
प्रसिद्धः ; येनोपमीयेत । केतुदण्डायमानादित्यन्यत्रापि न्याय
एषोऽनुसन्धेयः । एतौ यस्मादिति य इति च यच्छन्दद्व-
मेन परामृष्टयोरेकदा समं परामर्श: । 'यश्चाधर्मेण वि.
भूयात् यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रति विद्वेष
बाधिगच्छति ' इत्यादिप्रयोगात् । पयोजोदरल लततलौ
पाभ्यन्तरवत् मृदुतलौ पङ्कजाक्षस्य पुण्डरीक सदृश नयनस्य
 
४५
 
9