This page has been fully proofread once and needs a second look.

विष्णुपादादि-
ययोः प्रकाशैरिति भगवतः श्रीपादौ त्रिभिः श्लोकैरुपास्ते-

 
यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना-

दाश्च्योतन्ती बभासे सुरसरिदमला वैजयन्तीव कान्ता ।

भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तम्भशोभां दधौ नः

पातामेतौ पयोजोदरललिततलौ पङ्कजाक्षस्य पाढ़ौदौ
 
४४
 
6
 

 

 
द्यामाक्रामतः वामनरूपेण विरोचनसुतात् बले: पदत्रये

याचिते भगवतस्तत्क्रमणारम्भसमये इत्यर्थः । आक्रामत

इति, न त्वाक्रान्तवत इति । शत्रा ब्रह्मलोकं गतस्य ब्रह्मणा

निजकमण्डलुजलैर भिषिच्यमानस्य तत्क्षण एव सुरसरित्प्रादु-

र्भावात् उत्प्रेक्षया उपपत्तिः । ततः अण्डकटामपि भित्वा

ऊर्ध्वं गतस्य कुत उत्प्रेक्षावकाश इति ग्रोद्योत्यते । तस्य
' तस्य
विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे । नभः प्रक्रममाणस्य

नाभ्यां किल यदास्थितौ । दिवभामाक्रममाणस्य जानुभ्यां

तौ व्यवस्थितौ । विष्णोरमितवीर्यस्य वदन्त्येव द्विजातयः
'
इति हरिवंशोक्तेः । गरुडमणिशिलाकेतुदण्डायमानात्,

'गारुत्मतं मरकतम श्मगर्नेभं हरिन्मणिः' इत्यमरः । मरक-

तरत्नरूपया शिलया निर्मितः । क्यङ् । यस्मादपादानात्

आश्च्योतन्ती क्षरन्ती । सुरसरित् देवनदी गङ्गा । अमला
 
.
 
;